________________
प्रकाशः ]
मुञ्जराजप्रबन्धः ।
[ ६. मुञ्जराजप्रबन्धः । ]
O
३५) अथ प्रस्तावायातं मालवकमण्डलमण्डन श्रीमुञ्जराज चरितमेवम् - पुरा तस्मिन्मण्डले' श्रीपरमारवंश्यः श्रीसिंह भटनामा नृपती राजपाटिकायां परिभ्रमन् शरवणमध्ये जातमात्रमति- . मात्ररूपपात्रं कमपि बालमालोक्य पुत्रवात्सल्यादुपादाय देव्यै समर्पयामास । तस्य सान्वयं मुञ्ज इति नाम निर्ममे । तदनु सीन्धले इति नाम्ना सुतः समजनि । निःशेषरांजगुणपुञ्जमञ्जुलस्य 5 "श्रीमुञ्जस्य राज्याभिषेकचिकीर्नृपस्तत्सौधमलङ्कुर्वन्नमन्दमन्दाक्षतया निजवधूं वेत्रासनान्तरितां विधाय प्रणाम पूर्व भूपतिमारराध । राज तं प्रदेशं विजनमवलोक्य तज्जन्मवृत्तान्तमादित एव तस्मै निवेद्य 'त भक्त्या परितोषितः सन् सुतं विहाय तुभ्यं राज्यं प्रयच्छामी' ति वदन्; 'परमनेन सीन्धलनाम्ना बान्धवेन समं प्रीत्या वर्त्तितव्यमित्यनुशास्तिं दत्त्वा तस्याभिषेकं चकार । जन्मवृत्तान्तप्रसरशङ्किना तेन खदयिताऽपि निजघ्ने । तदनु पराक्रमाक्रान्तभूतलः समस्तविर्द्वज्जनचक्र - 10 वर्ती रुद्रादित्यनाम्ना महामात्येन चिन्तितराज्यभारः, तं सीन्धलनामानं भ्रातरमुत्कटतयाऽऽज्ञाभङ्गकारिणं स्वदेशान्निर्वास्य सुचिरं राज्यं चकार ।
Jain Education International
२१
३६) स सीन्धलो गूर्जरदेशे समागत्य [अर्बुदतलहट्टिकायां] काशहदनगरसन्निधौ निजां पल्ल निवेश्य दीपोत्सवरात्रौ मृगयां कर्तुं प्रयातः । चौरवध्यै भूमेः सन्निधौ शूकरं चरन्तमालोक्य, शूलिकायाः पतितं चौरशबमजानन्, जानुनाधो विधाय यावत्प्रतिकिरिं" शरं सज्जीकुरुते तावत्तेन शबेन 15 सङ्केतितः । ततस्तं करस्पर्शानिवार्य, शूकरं तं शरेण विदार्य, यावदाकर्षति तावत्स शो 'हासपूर्वमुत्तिष्ठन् सीन्धलेन प्रोचे- 'तव सङ्केतकाले शूकरे शरप्रहारः श्रेयान् किं वाऽवबुध्य मत्प्रदत्तः प्रहारः ?' इति तद्वाक्यान्ते से छिद्रान्वेषी प्रेतः तन्निःसीमसाहसेन परितुष्टो वरं वृणु । इत्यभिहितः, 'मम बाणः क्षितौ मा पतत्वि' ति याचिते, भूयोऽपि 'वरं वृणु' इति श्रुत्वा, 'मद्भुजयोः सर्वापि लक्ष्मीः खाधीने 'ति । तत्साहसचमत्कृतः स प्रेत इत्याह- 'त्वया मालवमण्डले गन्तव्यमिति 120 तत्र श्रीमुञ्जराजा सन्निहितविनाशस्तत्रं त्वया स्थातव्यम् । तत्र तवान्वये राज्यं भविष्यती 'ति तत्प्रेषितस्तत्र गत्वा श्रीमुञ्जराज्ञः सम्पदः पदं कमपि जनपद्मवाप्य पुनरुत्कटतया [ * प्रववृते । अन्यदा तैलिकात् पाराचिर्याचिता । तेन नार्पिता । ततः कोपादुद्दाल्य तत्कण्ठे झालयित्वा क्षिप्ता । तैलिकेन रावा कृता । राजा पुनः सरलामकारयत् । बलोत्कटत्वेन भीतो मुञ्जनृपः । इतश्च केsपि मर्दनकारिणो महाकला
1 Pa •एव व्याख्यास्यामः । 2 Pb मालवमण्डले । 3D सिंहदन्तभट०; BP श्रीहर्षनामा । 4 A रूपमात्रं; B रूपपात्रमतिमात्रं । 5 Pa बालकमवलोक्य । 6 Pb अपुत्रत्वेन पुत्रवा० । 7 A चान्वयं । +P प्रतौ 'सा स्वयं तस्य मुख इति नाम विदधे' एतादृशं वाक्यम् । 8 B सींधुल; P सिन्धुराज । 9AD 'राज' नास्ति । 10 AD •मञ्जुलमुञ्जस्य । 11 Pb चिकीर्षु० । 12 BP नृपति० । 13 Pa राजानं तं । 14 BP •मालोक्य । 15 BP भवद्भक्त्या । 16 BP यच्छामि। 17 B Pa तस्य स्वज० | 18 D सज्जन० । 19 AD • राज्यः । इतोऽग्रे D पुस्तके एतादृश्यधिका पङ्क्तिरुपलभ्यते
'चिरं सुखमनुभवन् कस्यामपि योषित्यनुरक्तश्चिक्खिल्लाभिधकरभमधिरुह्य द्वादशयोजनीं निशि प्रयाति प्रत्यायाति च । तया समं विश्लेषे जाते इमं दोधकममैषीत् - (२३) *मुअ पडल्ला दोरडी पेक्खिसि न गमारि । असाढि घण गज्जीइं चिक्खिलि होसेऽबारि ॥१ 20 B सिन्धुराजनामानं । 21 केवलं Pb प्रतौ इदं पदं दृश्यते । 22 AD दीपोत्सवे । 23 AD वध | 24 Pb शूकरं प्रति । 25 B दृढहास० । 26 D महाप्रदत्तः । 27 Pa तस्य स । एतद्विदण्डान्तर्गत पाठस्थाने Pb प्रतौ 'अट्टहासं कृत्वोत्पपात, अभी तुष्टः प्रेतो वरं वृणु' एतावान् एव संक्षिप्तः पाठो लभ्यते । 28 AD • विनाशस्तथापि तत्र त्वया गन्तव्यमेव । कान्तर्गताः पङ्क्तयः केवलं Pb प्रतौ लिखिता लभ्यन्ते ।
* एतत्कोष्ठ
For Private & Personal Use Only
www.jainelibrary.org