________________
5
प्रबन्धचिन्तामणिः।
[प्रथमः ३०) संवत् १०५३ पूर्व वर्ष १३ श्रीचामुण्डराजेनं राज्यं कृतम् । [२१] *लोकत्रयोल्लसत्कीर्तिर्महीपतिमतल्लिका । राजा वल्लभराजाख्यस्ततस्तत्तनुभूरभूत् ॥ [२२] *उपरुन्धन विरुद्धानां पुरीः पुरुषपौरुषः । जगज्झम्पन इत्येष विशेषज्ञैरुदीरितः ॥ ३१) सं० १०६६ पूर्व मास ६ श्रीवल्लभराजेन राज्यं कृतम् ।
[२३] *बभूव भूपतिस्तस्यावरजो विरजस्तमाः। श्रीमान् दुर्लभराजाख्यः सुदुर्लभयशाः परैः॥ _[२४] *कालेन करवालेन भोगिनेवाभिरक्षितम् । निधानमिव यदाज्यमनाहार्य परैरभूत् ॥
[२५] *सर्वथानुपभोग्येषु यस्य सौभाग्यभासिनः । न करः परदारेषु द्विजसारेषु चापतत् ॥ ३२) सं० १०६६ पूर्व व० ११ मा० ६ श्रीदुर्लभराजेन राज्यं कृतम् ।
___ अथ तेन राज्ञा दुर्लभेन श्रीपत्तने श्रीदुर्लभसरो रचयांचक्रे । [२६] *तस्य भ्रातृसुतः श्रीमान् भीमाख्यः पृथिवीपतिः । विष्टपत्रितयाभीष्टप्रवृत्तिप्रतिभूरभूत् ॥
10
__ (अत्र A. आदर्शानुसारी मुद्रितपुस्तकस्थः कालक्रमसूचकोऽयं पाठ एतादृशः-) [अथ सं० १५० (१ १०५२) श्रावणसुदि ११ शुक्रे पुष्यनक्षत्रे वृषलग्ने श्रीचामुण्डराजो राज्ये उपाविशत् ।
___ अनेन श्रीपत्तने चन्दनाथदेव-चाचिणेश्वरदेवप्रासादौ कारितौ। सं० ५५ (१ १०६५ ) अश्विनिशुदि ५ सोमे निरुद्धं वर्ष १३, मास १, दिन २४ राज्यं कृतं । 15 सं० १०५५ (१ १०६५ ) अश्विनशुदि ६ भौमे ज्येष्ठानक्षत्रे मिथुनलग्ने श्रीवल्लभराजदेवो राज्ये उपविष्टः ।
अस्य राज्ञो मालवकदेशे धाराप्राकारं वेष्टयित्वा शीलीरोगेण विपत्तिः सञ्जाता । अस्य 'राजमदनशंकर' इति तथा 'जगझंपण' इति विरुदद्वयं संजातम् । सं० १० ( १ १०६६) चैत्रशुदि ५ निरुद्धं मास ५, दिन २९ अनेन राज्ञा राज्यं कृतम् ।
सं० १५५(१०६६१) चैत्रशुदि ६ गुरौ, उत्तराषाढनक्षत्रे मकरलग्ने तभ्राता दुर्लभराजनामा राज्येऽभिषिक्तः। 20 अनेन श्रीपत्तने सप्तभूमिधवलगृहकरणं व्ययकरणहस्तिशालाघटिकागृहसहितं कारितम् । स्वभ्रातृवल्लभराजश्रेयसे मदनशङ्करप्रासादः कारितस्तथा दुर्लभसरः कारयांचक्रे । एवं १२ वर्ष राज्यं कृतं । ]
३३) तदनु [AD प्रतौ-सं० १०५ (१०७८) ज्येष्ठसुदि १२ भौमे अश्विनीनक्षत्रे मकरलग्नेएतावानधिकः पाठः ] श्रीभीमाभिधानं निजमङ्गजं राज्येऽभिषिच्य स्वयं तीर्थोपासनवासनया वाणा
रसीं प्रति प्रतिष्ठासुर्मालवकमण्डलं प्राप्यं तन्महाराजश्रीमुझेन 'छत्रचामरादिराजचिह्नानि विमुच्य 25 कार्पटिकवेषेणैव पुरतो व्रज, यद्वा युद्धं विधेहि'-इत्यभिहितोऽन्तरा धर्मान्तरायमुदितमवगम्य तं वृत्तान्तं नितान्तं श्रीभीमराजायं समादिश्य कार्पटिकवेषेण तीर्थे गत्वा परलोकं साधयामास ।
३४) ततः प्रभृति मालविकराजभिः सह गूर्जरनृपतीनां मूलविरोधबन्धः संवृत्तः॥१३॥
1P चामुण्डेन। * तारकचिह्नाङ्कितानीमानि पद्यानि केवलं P प्रतौ प्राप्यन्ते। 2 AD मा(भ्रा?)तुः सुतं । 3 P भासाथ। 4 AD बजेति। 5A भीमराजे। 6P तीर्थ। 7 BP मालवराज्ञा। 8AD विरोधः P विरोधबन्धः प्रवृत्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org