________________
[प्रकाश]
मूलराजप्रबन्धः ।
१९
वरप्रसादात्सर्वतोऽप्यजेयः, एकादशकृत्वस्त्रासितश्रीमूलराजसैन्यः कस्मिन्नप्यवसरे कपिलको - हेदुर्गस्थित एव लाखाकः राज्ञां स्वयं निरुद्धः । तदनु स लक्षः काप्यवस्कन्ददानाय प्रहितं निर्व्यू ढसाहसं माहेचाभिधं भृत्यमागच्छन्तमियेष । तत्खरूपमवधार्य श्रीमूलराजेन तदागमनमार्गेषु निरुद्धेषु स समाप्तकार्यस्तत्रागच्छन् 'शस्त्रं त्यजे 'ति राजपुरुषैरुक्तः खखामिकार्यसमर्थनाय तथैव कृत्वा समरसज्जं लाखाकमुपेत्य प्राणंसीत् । अथ संग्रामावसरे
२८. उग्या ताविउँ जिहिं न किउ लक्खउ भणइ ति' घट्ट । गणिया लब्भई दीहडा के' दह अहवा अट्ठ | इत्यादिबोधवाक्यानि " बहूनि व्याहरन् माहेचाभृत्ये नोटसु भटवृत्तिदर्शनेन प्रोत्साहित साहसः श्रीमूलराजेन समं द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्यदिने श्री सोमेश्वरमनुस्मृत्य ततोऽवतीर्णरुद्रकलया स लक्षो निजम्ने । अथ भूपतिस्तस्याजिभूपतितस्य वातचलिते* श्मश्रुणि पदा स्पृश लक्षजनन्या 'लूति" रोगेण भवद्वंशो विपत्स्यत' इति शर्तेंः ।
२९. स्वप्रतापानले येन लक्षहोमं वितन्वता । सूत्रितस्तत्कलत्राणां बाष्पावग्रहनिग्रहः ॥ ३०. कच्छपलक्षं हत्वा सहसाधिक लम्बजालमायातम् । सङ्गरसागरमध्ये धीवरतीं दर्शिता येन ॥ ३१. मेदिन्यां लब्धजन्मा जितबलिनि बलौ बद्धमूला दधीचौ रामे रूढप्रवाला दिनकरतनये जातशाखोपशाखा । किश्चिन्नागार्जुनेन प्रकटितकलिका पुष्पिता साहसाङ्के आमूला मूलराज त्वयि फलितवती त्यागिनि त्यागवल्ली ॥ ३२. 'स्नाता प्रावृषि वारिवाहसलिलैः संरूढदुर्वाङ्कुरव्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन् । प्रासादास्तव विद्विषां परिपतत्कुड्य स्थापिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम् ।। ॥ इति लाखाफूलउत्र - उत्पत्तिविपत्तिप्रबन्धः ॥ ११ ॥
15
३३. उद्धूमकेशं पदलग्नमग्निमेकं विषेहे विनयैकवश्यः । प्रतापिनोऽन्यस्य कथैव का द्विभेद भानोरपि मण्डलं यः ॥ इत्यादिभिः" स्तुतिभिः स्तूयमानो दिवमारुरोह ।
संव० ९९८ पूर्व वर्ष ५५ राज्यं श्रीमूलराजश्च ॥ इति मूलराजप्रबन्धः ॥ १२ ॥ [१८] *तस्मिन्नथ कथाशेषे निःशेषितनिजद्विषि । राजा चामुण्डराजोऽभूत् महीमण्डलमण्डनम् ॥ [१९] *विरोधिवनिताचित्ततापाध्यापनपण्डिताः । यदीयाः कटकारम्भाः कृतजम्भारिभीतयः ॥ [२०] * पाणिपङ्कजवर्त्तिन्या स्फुरत्कोशविलासया । यस्यासिभ्रमरश्रेण्या भिन्ना वंशाः क्षमाभृताम् ॥
२९) इत्थं तेन राज्ञा पञ्चपञ्चाशद्वर्षाणि निष्कण्टकं साम्राज्यं विधाय सान्ध्यनीराजनाविधेरनन्तरं राज्ञा प्रसादीकृतं ताम्बूलं वण्ठेन करतलाभ्यामादाय तत्र कृमिदर्शनान्निर्बन्धेनं तत्खरूपम`वगम्य वैराग्यात्संन्यासाङ्गीकारपूर्वं दक्षिणचरणाङ्गुष्ठे वह्निनियोजनापूर्वं गजदानप्रभृतीनि महा-20 दानानि ददानोऽष्टभिर्दिनैः
1 AD कोटि; B कोट । 2 BP 'लाखाकः' नास्ति । 3A Pतायु । 6 D जहिं । 7 Pतें। 8 B लाभहं । 9P कि । स्थाने 'विविधानि ' इति पाठान्तरम् । 11 D • भृत्येनोद्भवृत्तिद० । 12 14 चलित | 15 AD स्पृशन् राजा लक्ष० । 16 B तज्जनन्या । 20 P धीरता । + इदं पथद्वयं नोपलभ्यते B प्रतौ । 1 B प्रतौ नास्त्येषा 21 AD सन्ध्या । 22 D 'निर्बन्धेन' नास्ति । 23 BP अष्टादशभिः । 24 B काचिद्; P काsत्र 25P केवलं 'इति' । $ Da-b प्रतौ इदं वाक्यमुपलभ्यते । * एतानि पद्यानि P प्रतावेव प्राप्यन्ते ।
Jain Education International
5
'राजा' नास्ति । 4P 0 भिधानभृत्यं । 5 B तावयं;
10B • बहूनि बोधवाक्यानि व्याο; AD 'बहूनि ' B नास्ति 'अथ' । 13 P विना नास्त्यन्यत्र 'भूपतिः' । 17 B लूता० । 18 AD प्रशप्तः । 19 P हित्वा । पङ्किः; AD प्रतौ तु द्वितीयपथान्ते लिखिता लभ्यते ।
10
For Private Personal Use Only
25
www.jainelibrary.org