________________
प्रकाशः]
मूलराजप्रबन्धः। सं० ९५१ पूर्व श्रीवैरसिंहेन वर्ष २५ राज्यं कृतम् । सं०९७६ पूर्व वर्ष १५ श्रीरत्नादित्येन राज्यं कृतम् । सं० ९९१ पूर्व वर्ष ७ श्रीसामन्तसिंहेन राज्यं कृतम् ।
एवं चापोत्कटवंशे सप्त नृपतयोऽभूवन् । विक्रमकालात् संख्यया वर्ष ९९८ । [A आदर्श तथा प्रायस्तत्सदृशे D पुस्तके एषा वंशावलिः निम्नस्वरूपा लिखिता लभ्यतेसं० ८...... (?) श्रावणसुदि ४ निरुद्धं वर्ष १० मास १ दिन १ श्रीयोगराजेन राज्यं कृतम् । सं०८.......... श्रावणसुदि ५ उत्तराषाढनक्षत्रे धनुर्लग्ने रत्नादित्यस्य राज्याभिषेको बभूव । सं० ८......... कार्तिकसुदि ९ निरुद्धं वर्ष ३ मास ३ दिन ४ अनेन राज्ञा राज्यं कृतं । सं० ८......... कार्तिकसुदि ९ रवौ मघानक्षत्रे वृपलग्ने श्रीवैरसिंहो राज्ये समुपविष्टः। सं० ८......... ज्येष्ठसुदि १० शुक्रे निरुद्धं वर्ष ११ मास ७ दिन २ अनेन राज्ञा राज्यं चक्रे। 10 सं०८......... ज्येष्ठसुदि १३ शनौ हस्तनक्षत्रे सिंहलग्ने श्रीक्षेमराजदेवस्य राज्याभिषेकः समजनि । सं० ९२ ...... भाद्रपदसुदि १५ रवौ वर्ष ३८ मास ३ दिन १० अस्य राज्ञो राज्यनिबन्धः । सं० ९३५ वर्षे अश्वीनीसुदि १ सोमे रोहिणीनक्षत्रे कुम्भलग्ने श्रीचामुण्डराजदेवस्य पट्टाभिषेकः समजनि । सं० ९.........माधवदि ३ सोमे निरुद्धं वर्ष १३ मास ४ दिन १७ अनेन राज्ञा राज्यं विदधे । सं० ९३८ (?) माधवदि ४ भौमे स्वातिनक्षत्रे सिंहलग्ने श्रीआगडदेवो राज्ये उपविष्टः । अनेन कर्करायां 15
पुर्या आगडेश्वर-कण्टेश्वरीप्रासादौ कारितौ ।। सं० ९६५ पौषसुदि ९ बुधे निरुद्धं वर्ष २६ मास १ दिन २० राज्यं कृतं । सं० ९......... पौषसुदि १० गुरौ आर्द्रानक्षत्रे कुम्भलग्ने भूयगडदेवः पट्टे समुपविष्टः । अनेन राज्ञा
भूयगडेश्वरप्रासादः कारितः श्रीपत्तने प्राकारश्च । सं० ९......... वर्षे आषाढसुदि १५ निरुद्धं वर्ष २७ मास ६ दिन ५ राज्यं कृतं ।
20 __ एवं चापोत्कटवंशे पुरुष ८; तद्वंशे १९० वर्ष, मास २, दिन सप्त राज्यं कृतम् । ]
२३. *असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्समुत्तस्थौ कश्चिद्विलसदसिपट्टः स सुभटः ॥ इति ॥
[५. मूलराजप्रबन्धः।] २४) अथ पूर्वोक्तश्रीभूयंराजवंशे मुञ्जालदेवसुतां राज-बीज-दण्डक-नामानस्त्रयः सहोदरा यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्ताः श्रीमदणहिल्लपुरे श्रीसामन्तसिंहनृपं वाहकेल्यामवलोकमानास्तुरगस्य नृपेण कशाघाते दत्ते सति कार्पटिकवेशधारी राजनामा क्षत्रियोऽनवसरदत्तेन तेन कशाघातेन पीडितः शिरःकम्पपूर्वकं हा हेति शब्दमवादीत् । राज्ञा तत्कारणं पृष्टः स-'तुरङ्गमेन कृतं गतिविशेष न्युञ्छनयोग्यमनवधार्य कशाघाते दीयमाने ममैव मर्माभिघातः समजनि' । तेन तद्वचसा चमत्कृतेन राज्ञा स तुरङ्गमो वाहनाय समर्पितस्तस्यैव । अश्वाश्व-30 वारयोः सदृशं योगमालोक्य पदे पदे तयोर्युञ्छनानि कुर्वस्तेनैव तदाचारेण तस्य महत्कुलमाकलय्य लीलादेवीनाम्नी खभगिनीं तस्मै ददौ । आधानानन्तरं कियत्यपि गते काले, तस्या अकाण्ड___ * एतत्पy BP आदर्श नोपलभ्यते। 1 BP 'अर्थ' नास्ति । 2 D भूयगडरा०; P भूयडरा। 3 BP नास्ति । 4 AD श्रीभूयडदेवनृपं । 5 BP प्रहारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org