________________
10
प्रकाशः]
वनराजादिप्रबन्धः। यावद्देशमुद्ग्राह्य चतुर्विशतिसंख्यान पारूथकद्रम्मलक्षास्तेजोजात्यांश्चतुःसहस्रसंख्यांस्तुरङ्गमान् गृहीत्वा पुनः स्वदेशं प्रति प्रस्थितं पञ्चकुलं सौराष्ट्राभिधानघाटे वनराजो निहत्य कस्मिन्नपि वननिकुञ्ज तद्राजभयाद्वर्ष यावद्गुप्तवृत्त्या तस्थौ।
१९) अथ निजराज्याभिषेकाय राजधानीनगरनिवेशचिकीः शूरां भूमिमवलोकमानः पीपलुलातडागपाल्यां सुखनिषण्णेन भारूयाडसाखडसुतेनाणहिल्लनाम्ना पृष्टः-"किमवलोक्यते'। 5 'नगरनिवेशयोग्या शूरा भूमिरवलोक्यते' इति तैः प्रधानैरभिहिते, 'यदि तस्य नगरनिवेशस्य मन्नाम दत्त ततस्तां भुवमावेदयामी'त्यभिधाय जालिवृक्षसमीपे गत्वा यावती भुवं शशकेन श्वा त्रासितस्तावती भुवं दर्शयामास । तत्र प्रदेशे" अ ण हि ल पु र मिति' नाम्ना नगरं निवेशयामास ।"
[अत्रान्तरे P आदर्श निम्नोद्धृतानि पद्यानि लिखितानि प्राप्यन्ते[६] कृतहारानुकारेण प्रकारेण चकास्ति यत् । सुकृतेन वृतीभूय त्रायमाणं कलेरिव ॥ [७] चन्द्रशालासु बालानां खेलन्तीनां निशामुखे । यत्र वक्त्रश्रिया भाति शतचन्द्रं नभःस्थलम् ॥ [८] लङ्का शङ्कावती चम्पा सकम्पा विदिशा कृशा । काशिर्नाशितसम्पत्तिमिथिला शिथिलादरा ॥ [१] त्रिपुरी विपरीतश्रीमथुरा मन्थराकृतिः । धाराप्यभूनिराधारा यत्र जैत्रगुणे सति ॥ युग्मम् ॥ [१०] कौरवेश्वरसैन्यस्य यत्पौरस्त्रीजनस्य च । बलाद् गांगेय-कर्णस्य न पश्याम्यहमन्तरम् ॥
15 [११] प्रौढश्रीरलका न जातपुलका लङ्कातिशङ्काकुला, नैवाप्युञ्जयिनी कदापि जयिनी चम्पातिकम्पान्विता ।
कान्ती कान्तिविभूषिता नहि तथाऽयोध्याऽतियोध्याभवत् , यस्याग्रे तदिहाद्भुतं विजयते श्रीनर्तनं पत्तनम्।।] २०) ८०२ व्यधिकाष्टशतसंवत्सरे (A D संवत् ८०२वर्षे वैशाखसुदि २ सोमे)श्रीविक्रमार्कतस्तस्य जालितरोर्मूले" धवलगृहं कारयित्वा राज्याभिषेकलग्ने काकरग्रामवास्तव्यां तां प्रतिपन्नभगिनीं श्रियादेवीमाहूय तया कृततिलकः श्रीवनराजो" राज्याभिषेकं पञ्चाशद्वर्षदेश्यः कारया-20 मास । स जाम्बाभिधानो वणिग महामात्यश्चक्रे। पञ्चासरग्रामतः श्रीशीलगुणसूरीन सभक्तिकमानीय धवलगृहे निजसिंहासने निवेश्य कृतज्ञचूडामणितया सप्ताङ्गमपि राज्यं तेभ्यः समर्पयस्तैनिःस्पृहैर्भूयो भूयो निषिद्धस्तत्प्रत्युपकारवुद्ध्या तदादेशाच्छ्रीपार्श्वनाथप्रतिमालङ्कृतं पञ्चासराभिधानं चैत्यं निजाराधकमूर्तिसमेतं च कारयामास । तथा धवलगृहे कैण्टेश्वरीप्रसादश्च कारितः।
25 २१. गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । जैनैस्तु स्थापितं मत्रैस्तद्वेषी नैव नन्दति ॥ २१) संव० ८०२ पूर्व निरुद्धं वर्ष ५९ मास २ दिन २१ श्रीवनराजेन राज्यं कृतम् ।
श्रीवनराजस्य सर्वायुर्वर्ष १०९ मास २ दिन २१ । 1B 'यावत्' नास्ति। 2 P पारूप्यक; Db पारूषक; D रूप्यक। 3 BP चतुःसहस्रान् तुरगान् । 4 AD 'राजधानी' नास्ति। 5 P तटाक। 6 BP निषण्णो। 7 P भारुआडसांखडा०; B 'सांखडा' नास्ति । 8 A किमु विलो०। 9 BP 'प्रधानैः' नास्ति । 10 D नाम मम। 11 BD ददत। 12 B शशकेन यावती भुवं श्वा०; D यावती भूः शशकेनोच्छाशिता । 13 AD 'प्रदेशे' नास्ति । 14 AD 'इति' नास्ति । 15 P नास्ति। 16 BD निवेश्य। 17 BP .तरोस्तले। 18 BP माकार्य। 19 BP नास्ति । 20 D नास्ति 'तत्'; A ततः। 21 P सहितं । 22 AD तथा तेन। 23 D गृहकण्ठे । 24 D कण्ठे। 25 Db तवेषाद् तन नन्दति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org