________________
११७
प्रकाशः]
प्रकीर्णकप्रबन्धः । मनोगतामवगम्य प्रभोनिःसीमप्रसादपात्रं द्वितीयमिव गात्रं तुङ्गनामा क्षात्रं तेजो वहन् सुभटकोटिकोटीरः स्वप्रतिबिम्बरूपेण पुत्रेण समं म्लेच्छपतेरनीकं प्रविश्य तस्थौं । निशीथसमये तस्य रिपोर्गुरूदरात् परितः खादिराङ्गारधगधगायमानां परिखां निरीक्ष्याङ्गजं जगाद-'अस्यां मम प्रविष्टस्य पृष्ठे पदं ददानो म्लेच्छपतिं निगृहाणे ति पितुरादेशान्ते 'कार्यमेतन्ममासाध्यतमम् , किं च निजजीविताकाङ्क्षया पितुर्विपत्तिदर्शनम् ; तदहमस्यां विशामि भवन्त एव तमन्तं नयन्तु।' 5 इत्युक्त्वा तेन तथाकृते खामिकार्यं पर्याप्तप्रायं मन्यमानस्तमराति लीलया निगृह्य यथागतमाजगाम। विभातभूयिष्ठायां निशि विपन्नं खं स्वामिनं निरीक्ष्य परं दैन्यं दधन् म्लेच्छसैन्यं' पलायांचके। स तुङ्गसुभटस्तुङ्गप्रकृतितया नृपतेः कदाचिन्न ज्ञापयामास । कस्मिन्नप्यवसरे राजमान्यतया नितान्तपरिचितां तुङ्गपुत्रवधूमवधूतमङ्गलवलयामालोक्य सम्भ्रमान् नृपतिना पृच्छयमानोऽपि पयोधिरिव गम्भीरतया मौनमर्यादया किमप्यविज्ञपयन् निजशपथदानपूर्वकं 10 पृष्टो निजगुणकथापनकं दुष्करमिति तथापि प्रभोरभ्यर्थनया निवेद्यमानमस्तीत्यभिधाय तट्टत्तान्तं प्रत्युपकारभीर्यथावस्थितं निवेदयामास ।
२५९. इयमुच्चधियामलौकिकी महती कापि कठोरचित्तता। उपकृत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारशङ्कया' ॥ ॥ इति तुङ्गसुभटप्रवन्धः॥
15 २१६) अथ कदाचित्तस्य म्लेच्छपतेः सूनुर्नपतिः पितुर्वैरं स्मरन् , सपादलक्षक्षितिपतिर्विग्रहकाम्यया सर्वसामग्र्या समुपेतः पृथ्वीनाथस्य नासीरवीरधनुर्द्धरशरैः प्रावृषेण्यधाराधरधारासारैरिव तस्मिन्ससैन्येऽपि त्रासिते पृथ्वीराजस्तदा तदानुपदिकीभावं भजन , महानसाधिकृतपञ्चकुलेन व्यज्ञपि-करभीणां सप्तशत्यापि महानसपरिस्पन्दः सुखेन नोह्यते, ततः कियतीभिः करभीभिः प्रभुःप्रसीदतु' इति विज्ञप्तो नृपतिः 'म्लेच्छपतिमुच्छेद्य तदौष्ट्रिकमाच्छिद्य भवदभ्यर्थिताः करभी: 20 प्रसादीकरिष्यामी'ति तत्सम्बोध्य पुनः प्रयाणं कुर्वन् सोमेश्वरनाम्ना प्रधानेन भूयो भूयो निषिध्यमानः, तत्पक्षपातभ्रान्त्या नृपतिना निगृहीतकर्णः, तदत्यन्तपराभवात् तस्मिन् प्रभौ सामर्षों म्लेच्छपतिं प्राप्य तदभिभवप्रादुःकरणतस्तान् विश्वस्तान पृथ्वीराजस्कन्धावारसन्निधौ समानीय, पृथ्वीराजराज्ञ एकादश्युपवासकृतपारणादनु सुप्तस्य तन्नासीरवीरैः सह म्लेच्छानां समरसंरम्भे सञ्जायमाने निर्भरनिद्रानिद्रायमाण एवं" तुरुष्कैर्नृपतिर्निबध्य खसौधे नीतः। पुनरप्येका-25 दश्युपवासपारणके नृपतेर्देवतार्चनावसरे म्लेच्छराज्ञा प्रहितं पत्रपात्रीकृतं मांस्पाकं गुरूदरान्तनियुज्य तथैव देवताराधनवैयग्र्ये सति शुनाऽपह्रियमाणे तस्मिन् पिशिते 'किं न रक्षसि?' यामिकैरित्यभिहितः, 'करभीणां सप्तशत्या दुर्वहं यत्पुरा मम महानसं तत्साम्प्रतं दुर्दैवयोगादीदृशीं दुर्दशां प्राप्तमिति कौतुकाकुलितमानसो विलोकयन्नस्मीति तेनोक्ते 'किं काचिदद्यापि त्वय्युत्साहशक्तिरवशिष्यत?' इति तैर्विज्ञप्से 'यदि स्वस्थाने गन्तुं लभेत तदा दर्शयामि वपुःपौरुषमिति 30 यामिकैर्विज्ञप्तो म्लेच्छभूपतिस्तत्साहसं दिदृक्षुस्तदीयां राजधानीमानीय पृथ्वीराजं तत्र राजसौधे
1D मिवामानं। 2 P बिनाऽन्यन्न नास्तीदं पदं। 3 AD वप्तुः। 4 AD 'परसैन्यं' इत्येव। 5 P विहाय अन्यत्र 'कथापनकं' स्थाने 'पातकं' शब्दः। 6 BP दूरतः । 7 BP भीरवः। 8 D नास्त्येतत्पदं। 9D म्लेच्छाधिपतीनां । 10 D 'एव' नास्ति । 11 D तत्र। 12 D तदैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org