________________
११३
प्रकाशः]
प्रकीर्णकप्रबन्धः। २४७. सिद्वत्तसद्गुणमहार्हमनय॑मूल्यकान्ताघनस्तनतटोचितचारुमूर्ने ।
आः पामरीकठिनकण्ठविलग्नभग्न हा हार हारितमहो भवता गुणित्वम् ॥ कस्मिन्नपि सर्वावसरप्रस्तावे' तानि वीक्ष्य तदर्थमवगम्य तस्मिन्नन्तर्दृषं दधौ । यतः२४८. प्रायः सम्प्रति 'कोपाय सन्मार्गस्योपदेशनम् । विलूननासिकस्येव यद्वदादर्शदर्शनम् ॥
इति न्यायात्सामर्षतया तं पदभ्रष्टं चकार । । अथ स नृपतिः कदाचिद्राजपाटिकायाः प्रत्यावृत्तो दुरवस्थमेकाकिनमुपायविधुरमुमापतिधरं तं वीक्ष्य क्रोधाद्वधाय हस्तिपकेन हस्तिनं प्रेरयामास । स तु निषादिनं प्रति प्राह-यावदहं राज्ञोऽग्ने किश्चिद्वच्मि तावजवान्निवार्यतां गजः।' तद्वचनात्तेन तथाकृते उमापतिधरः प्राह२४९. नग्नस्तिष्ठति धूलिधूसरवपुर्गोपृष्ठिमारोहति व्यालैः क्रीडति नृत्यति स्रवदसृग् चर्मोद्वहन् दन्तिनः।
आचाराद्धहिरेवमादिचरितैराबद्धरागो हरः सन्तो नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् ॥ 10 इति तद्विज्ञानाङ्कुशेन वशंवदमनोगजो निजचरित्रे किञ्चित्सानुशयः खममन्दं निन्दस्तव्यसनं शनैर्निषिध्य तं पुनरेव प्रधानीचकार ।
॥ इति लक्ष्मणसेनोमापतिधरयोः प्रबन्धः॥ २१०) अथ कासिनगर्यां जयचन्द्र" इति नृपः प्राज्यसाम्राज्यलक्ष्मी पालयन् पङ्गुरिति बिरुदं बभार । यतो यमुना-गङ्गायष्टियुगावलम्बनमन्तरेण चमूसमूहव्याकुलिततया कापि गन्तुं न प्रभ-15 वति । कस्मिन्नप्यवसरे तत्र वास्तव्यस्य कस्यापि शालापतेः पत्नी सूहवनानी सौन्दर्यनिर्जितजगत्रयस्त्रणा, भीष्मग्रीष्मतों जलकेलिं विधाय सुरसरित्तीरे तस्थुषी सा खानाक्षी, व्यालमौलिस्थितं खञ्जनं वीक्ष्य तमसम्भाव्यं शकुनं कस्यापि द्विजन्मनः लातुमायातस्य पदोर्निपित्य तद्वि- . चारं पप्रच्छ। स निमित्तवित् 'चेन्मदादेशं सदैव तनुषे तदा तव विचारमहं निवेदयामीति तेनोक्ता तव पितृनिर्विशेषस्य मान्यामाज्ञां सदैव मूर्धा तां वहामी ति प्रतिज्ञापरायास्तस्याः 20 'सप्तमेऽहनि त्वमस्य नृपतेरग्रमहिषी भविष्यसीति आदिश्य द्वावपि यथागतं जग्मतुः। अथ निमित्तविदा निर्णीते वासरे स राजा राजपाटिकायाः प्रत्यावृत्तः कापि रथ्यायां नेपथ्यविहीनामपि अगण्यलावण्यपुण्याङ्गीं तां शालापतिबालां विलोक्य स्वचित्तसर्वखचौरीमूरीकृत्याग्रमहिषीं चकार। तदनु तया कृतज्ञया" विघं प्रति खां प्रतिज्ञा स्मरन्त्या नृपाय तस्मिन् विद्याधरनिमित्ते विज्ञप्ते पटहप्रणादपूर्व तस्मिन् विद्याधरे आहूयमाने, विद्याधराभिधानानां द्विजानां सप्तशती- 25 मागतां विलोक्य तमेकमुपलक्षितं पृथक् कृत्वा शेषेषु यथोचितं सत्कृत्य विसृष्टेषु नृपतिः 'यथेप्सितं प्रार्थये ति विद्याधरं विपद्विधुरं प्राह । राजादेशप्रमुदितेन तेन 'अङ्गसेवा सदैवास्तु' इति प्रार्थिते नृपतिना तथेति प्रतिपन्ने, तस्य निरवधिचातुर्य पर्यालोच्य सर्वाधिकारभारे" धुरन्धरो व्यधायि । स च क्रमेण सम्पन्नसम्पन् निजद्वात्रिंशदवरोधपुरन्ध्रीणामनुवासरं जात्यकर्पूरपूराभ
+ इदं पद्यं P आदर्श नोपलब्धम् । 1 D कस्मिन्नप्यवसर। 2 P समये। 3 P निरीक्ष्य । 4 D सन्ति प्रकोपाय । 5 P विशुद्धादर्श० । 6 P नास्ति 'उपायविधुरं'। 7 P विहाय नान्यत्र 'उमापतिधरं'। 8 P व्यापारयामास । 9 D रागाहरे । 10 D चरित्रैकवित् । 11 P जयतचन्द्र। 12 P 'प्राज्य' नास्ति । 13 P द्विजस्य। 14 D सामान्या मयाज्ञा। 15 AD कृतज्ञतया। 16 AD विप्रप्रतिज्ञा। 17 P सर्वव्यापारभारे।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org