________________
११२ प्रबन्धचिन्तामणिः।
[ पत्रमा २०८) अथ पुरा कुसुमपुरे नगरे नन्दिवर्द्धननामा राजकुमारो निजंच्छत्रधरेण समं देशान्तरविलोकनकुतुकी पितरावनापृच्छय यदृच्छया गच्छन् प्रत्यूषकाले कापि पुरे प्राप्तः। तत्राऽपुत्रिणि नृपती पञ्चत्वमुपागते सति सचिवैरभिषिक्तः पदहस्ती निर्खिलेऽपि नगरे यदृच्छया भ्राम भ्रामं स सम्भ्रमं तत्रागतः। तं नृपंकुमारमासन्नमपि दुःखममिव विस्मृत्य परं छत्रधरमभ्यषि5 श्चत् । स च तत्प्रधानैर्महता महोत्सवेन पुरं प्रवेश्यमानो राजकुमारमपि तयैव महत्या प्रतिपत्त्या सह गृहीत्वा सौधं गतः । 'अहं राजलोकस्य खामी त्वं तु मम' इत्युचितैरुपचारवचनैस्तमन्तरितमारराध । स तु राजा राजगुणानामनो निरवधिदुर्मेधा वर्णाश्रमपालनापरिश्रमानभिज्ञो यथा यथा प्रजापीडनपरः साम्राज्यं कुरुते तथा तथा पशुपतिमूर्धा विधृतराजेव स कुमारः प्रतिदिनं हीयते । कस्मिन्नप्यवसरे तं तथास्थितं कुमारं स नृपतिस्तत्तनुताहेतुं पृच्छन् 'दुर्मेधतया त्वं 10 यत्प्रजाः पीडयसि तेनात्यन्तमनौचित्येन कृशतामावहामि ।
२४२. वासो जडाण मज्झे दुजीही सामिसवर्णपंडिलग्गा। जीविजइ त लाहो झीणत्ते विम्हओ" कीस ॥ इति मया गाथार्थः सत्यापितोऽस्तीति तद्वचनानन्तरं 'यदस्याः प्रजायाः पापनिरताया अपुण्योदयेनावश्यंभाविपीडनावसरेऽहं नृपतीकृतः। यदि प्रजायाः परिपालना लोकेशोऽभ्यलिखिष्यत्तदा भवत एव पट्टहस्ती पट्टाभिषेकमकरिष्यदिति तदुक्तियुक्तिभ्यां भेषजाभ्यामिव निगृहीत15 रुक स कुमारो वपुःपीवरतां बभार ।
॥ इति कर्मसारप्रवन्धः॥ २०९) अथ गौडदेशे लष(ख)णावत्यां नगर्या श्रीलक्ष्मणसेनो नाम नृपतिरुमापतिधरनाम्ना" सचिवेन सर्वबुद्धिनिधानेन" चिन्त्यमानराज्यश्चिरं राज्यं चकार । स त्वनेकमत्तमातङ्गसैन्यसङ्गादिव मदेनान्धतां दधानो मातङ्गीसङ्गपङ्ककलङ्कभाजनमजनि । उमापतिधरस्तु तद्व्यतिकरमव20 गम्य प्रकृतिक्रूरतया च स्वामिनोऽनाकलनीयतां च विचिन्त्य प्रकारान्तरेण तं बोधयितुं सभामण्डपभारपट्टे गुप्तवृत्त्यामूनि काव्यानि लिलेख२४३. शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी खच्छता किं ब्रूमः शुचितां बृजन्त्यशुचयः स्पर्शात्तवैवापरे ।
किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोढुं क्षमः॥ २४४. त्वं चेत्सश्चरसे वृषेण लघुना" का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि तनु हानिन हेम्नामपि । 25 मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्साम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ २४५. छिन्नं ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि ।
सृष्ट्वा संहरति प्रजा यदि तथाप्याधाय भक्त्या मनस्तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ।। २४६. एतस्मिन्महति प्रदोषसमये राजा त्वमेकस्ततो लक्ष्मीमम्बुरुहां पिधाय कुमुदे कि नो" तनोषि श्रियः।
यद्राही स्थितिरत्र यच्च सुमनःश्रेणीषु सम्भावना त्वं तावत्कतमोऽसि तत्तिरयितुं धातापि नैव क्षमः ।।
1AD नास्ति। 2 AD 'निज' नास्ति । 3 BP दर्शनः। 4P प्रभातः। 5 P सकलेऽपि। 6 'भ्रामं भ्राम ससम्भ्रम' स्थाने D 'बभ्राम'; A 'स भ्रमन्'। 7AD गतनृप। 8 P महेन। 9AD 'परिश्रम' नास्ति । 10 D नास्ति । 11 AD दोजीहा। 12 P सामिझत्तः। 13 P वरि। 14 AD झीणिते। 15 D विम्हिओ। 16 D 'नाना' नास्ति । 17 AD निधिना। 18 D मदान्धतां । 19 D अनालोकनी। 20 P भवन्ति। 21 P स्पर्शन यस्थापरे । 22 AD लघुता। 23 P कुरुषे। 24 BP ना। 25P यत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org