________________
प्रबन्धचिन्तामणिः।
[ चतुर्थः [१६०] येन पौषधशालास्ताः कारितास्तारितात्मना । मध्ये श्वेताम्बरैर्यासां विशुद्धिः सुधया बहिः॥ [१६१] यस्य पोषधशालासु यतयः संवसन्ति ते । सदा येषामदाराणामात्मभूसम्भवः कुतः॥ [१६२] ज्ञानाख्यं यस्य तचक्षुर्वाचां देवी ददे मुदा । नित्यं येनैप धर्मस्य गतिं सूक्ष्मामपीक्षते ॥
१८७) अथ सं०१२७७ वर्षे सरखतीकण्ठाभरण-लघुभोजराज-महाकवि-महामात्य-श्रीवस्तु5 पालेन महायात्रा प्रारेभे । गुरूपदिष्टे लग्ने तत्कृतसङ्घाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपक्षे दुर्गादेव्याः खरमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किश्चिचिन्तयति। कश्चिन्मरुवृद्धः 'शकुनं भारितं विधेही'त्यभिदधानः, शकुनाच्छब्दोबलीयानिति विचार्य पुराद्धहिरावासेषु श्रीदेवालयं संस्थाप्य शकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाघ्यते। राज्यविकल
तायां तीर्थमार्गाणां वैषम्यम् । तथा यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुष प्रस्थाप्य स 10 प्रदेशो दर्यताम् । तथाकृते स पुरुष इति विज्ञपयामास-'यत्तस्मिन् वरण्डके नवीक्रियमाणे सा
र्द्धत्रयोदशे घरे (गृहे ?) निषण्णा देव्यभूत् ।' अथ स मरुवृद्धो ‘देवी भवतः सार्द्धत्रयोदशसंख्या यात्रा अभिहितवती।' अन्त्यार्द्धयात्राहेतुं भूयः पृष्टे स प्राह-'इहातुलमङ्गलावसरे तद्वक्तुं न युक्तम् । समये सर्व निवेदयिष्यामीति वाक्यानन्तरं श्रीसङ्घन समं स मन्त्री पुरतः प्रयाणमकरोत् । सर्वसंख्यया-वाहनानामर्द्धपञ्चमसहस्राणि, एकविंशतिशतानि श्वेताम्बराणाम् , त्रिशती दिग्वास15साम; सङ्घरक्षाधिकारे सहस्रं तुरङ्गमाणाम् , सप्तशती रक्तकरभीणाम् , सङ्घरक्षाधिकारिणश्वत्वारो महासामन्ताः । इत्थं समग्रसामग्र्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे खयं कारिते श्रीमहावीरचैत्यालङ्कृतस्य श्रीललितसरसः परिसरे आवासान् दापयामास । तत्र तीर्थाराधनां विधिवद्विधाय मूलप्रासादे काश्चनकलशम् , प्रौढजिनयुगलम् , श्रीमोढेरपुरावतार-श्रीमन्महावीरचैत्याराध
कमूर्ति-देवकुलिकामूलमण्डपश्रेणेरुभयतश्चतुष्किकाद्वयपति-शकुनिकाविहार-सत्यपुरावतार20 चैत्यपुरतो रजतमूल्यं तोरणम् , श्रीसङ्घयोग्या मठाः, जामि सप्तकस्य देवकुलिकाः, नन्दीश्वरावतारमासादः, इन्द्रमण्डपश्च; तन्मध्ये गजाधिरूढश्रीलवणप्रसाद-वीरधवलमूर्ती, तुरङ्गाधिरूढे निजमूर्ती, तत्र सप्त पूर्वपुरुषमूर्तयः, सप्त गुरुमूर्तयश्च, तत्सन्निधौ चतुष्किकायां ज्यायोभ्रात्रोर्महमालदेव-लूणिगयोराराधकमूर्ती, प्रतोली, अनुपमासरः, कपर्दियक्षमण्डपतोरणप्रभृतीनि'
बहूनि 'धर्मस्थानानि रचयांचक्रे । तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाणसत्कजातीयषोडश25 स्तम्भेषु पावर्कपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भस्तथा पङ्के निमग्नः यथा निरीक्ष्यमाणोऽपि न लभते । तत्पदेऽपरपाषाणस्तम्भेन प्रासादः प्रमाणकोटिं नीतः। वर्षान्तरे वारिधिवेलावशात्पङ्कनिमग्नः स एव स्तम्भः प्रादुरासीत् । सचिवसमादेशात्तस्मिंस्तत्र सञ्चार्यमाणे प्रासादो विदीर्ण इति निवेदितुमागताय परुषभाषकायापि पुरुषाय हैमी जिह्वां स मत्री ददौ । दक्षैः किमेतदिति पृष्टे 'अतः परं तथा कथञ्चिद्धर्मस्थानानि दृढानि 30 कारयिष्यन्ते यथा युगान्तेऽपि तेषां नान्तो भवति । अतः पारितोषिकं दानम् ।' आमूलात्तृतीयवेलायामयं प्रासादः समुद्धृतो विजयते । श्रीपालिताणके च विशालां पौषधशालांकारयामास। श्रीमदुजयन्ते च श्रीसद्धेन सह प्राप्तो मन्त्री । तत्र च तदुपत्यकायां तेजलपुरे" खकारितं नव्यं
1D 'कश्चित् ' नास्ति। 2 D वरण्डशब्दे। 3 A घिरे; B परे; P बरे; D.देशष्वरेषु। 4 D नास्त्येतत्पदम्। 5 D धार्मिकसप्तः। 6A 'प्रभृतिनिजधर्मस्थानानि' इत्येव । 7 D जिनधर्मः। 8 D 'पावक' शब्दो नास्ति । 9 'अपि पुरुषाय' नास्ति ADI 10 P अदात्; A ददे। 11 D जलपूरे कारितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org