SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ चतुर्थः जितं जितमिति ब्रुवाणः स्वयं पोतं भ्रमयांचकार । इति सर्वेषां सामन्तानां सर्वानपि तुरङ्गमान् स नृपतिराक्रम्य जग्राह । ॥ इति चाहडकुमारप्रबन्धः॥ १३३) तदनु चौलुक्यराज्ञा कृतज्ञचक्रवर्तिना आलिगकुलालाय सप्तशतीग्राममिता विचित्रा 5 चित्रकूटपटिका ददे । ते तु निजान्वयेन लजमाना अद्यापि सगरा इत्युच्यन्ते । यैश्च छिन्नकण्टकान्तरे प्रक्षिप्य क्षितिपो रक्षितस्तेऽङ्गरक्षकपदे प्रतिष्ठिताः। १३४) अथ' सोलाकनामा गन्धर्वोऽवसरे गीतकलया परितोषिताद्राज्ञः प्रसादे' षोडशाधिकं द्रम्माणां शतं प्राप्य, तैः सुखभक्षिका विसाध्य तया बालकांस्तर्पयन् कुपितेन राज्ञा निर्वासितः। ततो विदेशं गतस्तत्रत्यभूपतेर्गीतकलया अतुलया रञ्जितात्प्रसादप्राप्तं गजयुगलमानी10 योपायनीकुर्वन् चौलुक्यभूपालेन सम्मानितः। १३५) कदाचित्कोऽपि वैदेशिकगन्धर्वो 'मुषितोऽस्मि मुषितोऽस्मीति तारं बुम्बारावं कुर्वाणः, 'केन मुषितोऽसीति राज्ञाभिहितो 'ममातुलया गीतकलया 'समीपागतेन, मया कौतुकाद्गलन्यस्तकनकशृङ्गलेन' त्रस्यता मृगेण' इति विज्ञपयामास। तदनु भूपतिना समादिष्टः सोलाभिधानो गन्धर्वराडष्टवीमटन् स्फीतगीताकृष्टिविद्यया कनकशृङ्खलाङ्कित्तगलं' मृगं नगरान्तः समानीय 15 तस्य भूपतेर्दर्शयामास । १३६) अथ तत्कलाकौशलचमत्कृतमानसःप्रभुः श्रीहेमाचार्यो गीतकलाया अवधि पप्रच्छ । स तु शुष्कदारुणः पल्लवप्ररोहमवधि विज्ञप्तवान् । 'तर्हि तत्कौतुकं दर्शयेत्यादिष्टः, अर्बुदाद्गिरेविरहकनामानं वृक्षमाक्षेपादानाय्य तच्छुष्कशाखाखण्डं राजाङ्गणे कुमारमृत्तिकया क्लृप्तालवाले निवेश्य" निजया नवगीतगीतकलया सद्यः प्रोल्लसत्पल्लवं तं निवेदयन् , सनृपतीन् भट्टारकश्री20 हेमचन्द्रसूरीन् परितोषयामास । ॥ इति "बइकारसोलाकप्रबन्धः॥ १३७) अथ कदाचित्सर्वावसरस्थितश्चौलुक्यचक्रवर्ती कौडणदेशीयमल्लिकार्जुनाभिधानराज्ञो मागधेन "राजपितामह" इति बिरुदमभिधीयमानमाकर्ण्य तदसहिष्णुतया सभां निभालयन्नृपचित्तविदा मत्रिणा"ऽम्बडेन योजितकरसम्पुटं दर्शयता चमत्कृतः, सभाविसर्जनानन्तरमञ्जलि25 बन्धस्य कारणं पृच्छन्नेवमवादीत्"-'यदस्यां सभायां स कोऽपि सुभटो विद्यते यं प्रस्थाप्य मिथ्याभिमानिनं चतुरङ्गनृपवन्नृपाभासं मल्लिकार्जुनं विनाशयामः-इत्याशयविदा मया त्वदादेशक्षमेण चाञ्जलिबन्धश्चके" इति त विज्ञप्तिसमनन्तरमेव तं नृपं प्रति प्रयाणाय दलनायकीकृत्य पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज । स चानवच्छिन्नैः प्रयाणैः कुङ्कुणदेशमधिगम्य दुर्वारवारिपूरां कलविणिनाम्नी सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु तं 1 BP DC तस्य चौलुक्यराज्ञः पट्टाभिषेकानन्तरं स सोलाकनामा। 2 D नास्ति । 3 D तेन । 4 D नास्ति । । एतदन्तर्गतपाठस्थाने P प्रतौ एतादृशः पाठः-'तनिर्भर्त्सनया विदेशे गतः सकरेणुं करेणुं सकलया रञ्जितात्तत्रत्यभूपतेर्लब्ध्वा समानीयः।' 5 B आदर्श एवेदं पदं विद्यते। 6P सांराविणं । १- BP सामीप्यमुपेयुषा कौतुकार्पितगलशृंखलेन। 7 BP गलखेलत्कनकश्रृंखलं। 8 P तत्कौशलं। 9AD शाखायाः काष्ठं। 10 BP मृत्तिकालता०, B मृत्तिकाक्षिप्ता। 11 P विन्यस्य । 12 D द्वितीयः 'गीत' शब्दो नास्ति। 13 B हेमाचार्यान्; P हेमचन्द्राचार्यान्। 14 P वइकार; D अच्छइकार। 15 P नृपतिः। 16 P नास्ति। 17 D एवमूचे; P एवं तेन प्रोचे। 18 P नास्ति 'सुभटः। 19 P बन्धोऽकारि। 20 'त' नास्ति ADI 21 D दलमेकीकृत्य। 22 P आसाद्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002519
Book TitlePrabandha Chintamani
Original Sutra AuthorMerutungacharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy