________________
प्रकाशः]
कुमारपालादिप्रबन्धः।
[९. कुमारपालादिप्रबन्धः ।।
१२६) अथ परमाईतश्रीकुमारपालप्रबन्धः'प्रारभ्यते-श्रीमदणहिलपुरपत्तने बृहति श्रीभीमदेवे साम्राज्यं प्रति पालयति, श्रीभीमेश्वरस्य पुरे बकुलदेवीनाम्नी पण्याङ्गना पत्तनप्रसिद्धं गुणपात्रं रूपपात्रं च । तस्याः' कुलयोषितोऽप्यतिशायिनी प्राज्यमर्यादां नृपतिर्विमृश्य तद्वृत्तंपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्या- 5 मेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपो वर्षद्वयं यावन्मालवकमण्डले विग्रहाग्रहात्तस्थौ । सा तु बकुलदेवी तद्दत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहृतसर्वपुरुषा शीललीलयैव तस्थौ। निस्सीमपराक्रमो भीमस्तृतीये" वर्षे स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य" तामन्तःपुरे न्यधात् । तदङ्गजो हरिपालदेवः, तत्सुतस्त्रिभुवनपालः, तत्पुत्रः कुमारपालदेवः । स तु अविदितधर्मोऽपि कृपापरः परनारीसहोदरश्च। स तु सामुद्रिकवेदिभिः ‘भवदनन्तरमयं नृपो 10 भविष्यतीति सिद्धपो विज्ञप्तस्तस्मिन्हीनजातावित्यसहिष्णुतया विनाशावसरं सततमन्वेषयामास । स कुमारपालस्तं वृत्तान्तमीषद्विज्ञाय तस्मान्नृपतेः शङ्कमानमानसः तापसवेषेण निर्मितनानाविधदेशान्तरभ्रमणः कियन्त्यपि वर्षाण्यतिवाह्य पुनः पत्तनमागतः । कापि मठे तस्थौ ।
१२७) अथ श्रीकर्णदेवस्य श्राद्धावसरे श्रद्धालुतया निमत्रितेषु सर्वेष्वपि तपस्विषु श्रीसिद्धराजः प्रत्येकं तेषां तपखिनां वयं पादौ प्रक्षालयन् कुमारपालनाम्नस्तपस्विनः कमलकोमलौ चरणौ कर-15 तलेन संस्पृश्य तदूर्द्धरेखादिभिर्लक्षणे राज्या.ऽयमिति निश्चलया दृशाऽपश्यत् । तदिङ्गितैस्तं विरुद्धं बुध्यमानस्तदैव वेषपरावर्तेन काकनाशं नष्टः। आलिगनाम्नः कुलालस्यालये मृत्पात्राणामापाके रच्यमाने तदन्तर्निधाय तदानुपदिकेभ्यो राजपुरुषेभ्यो रक्षितः। स क्रमात्ततः सञ्चरन् तद्विलोकनाकुलेन राजलोकेन त्रासितः सन्निहितां दुर्गमां दुर्गभूमिमनवलोक्य कापि क्षेत्रे ध्वाङ्करक्षकैः" क्रियमाणच्छिन्नकण्टकिशाखिशाखानिचये समुपचीयमाने तं तदन्तर्निधाय तेषु स्वस्था-20 नमागतेषु पदिकेन तत्रानीते पदे सर्वथा तत्रासम्भावनया कुन्ताग्रेण भेद्यमानेऽपि तस्मिंस्तमनासाद्य व्यावृत्ते राजसैन्ये, द्वितीयेऽहनि क्षेत्राधिकृतस्ततः स्थानादुद्धृतः पुरतः कापि प्रातरान्तजन् कापि तरुच्छायायां विश्रान्तः सन् , बिलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य, यावदेकविंशसंख्यानि दृष्ट्वा पुनस्तेभ्य एकं गृहीत्वा तस्मिन् बिलं प्रविष्टे पाश्चात्यानि तु सर्वाणि स गृहीत्वा यावन्निभृतीभवति तावत्स तान्यनवलोक्य तदा विपेदे । स तच्छोक-25 व्याकुलितमानसश्चिरं परितप्य पुरतो व्रजन् , कयापीभ्यवध्वा श्वशुरगृहात्पितृगृहं ब्रजन्त्या, पथि पाथेयाभावादिनत्रयं क्षुत्क्षामकुक्षिभ्रोतृवात्सल्यात्कर्पूरपरिमलशालिशालिकरम्बेण सुहितीचके।
१२८) तदनु स विविधानि देशान्तराणि परिभ्रमन् स्तम्भतीर्थे महं० श्रीउदयनपार्श्वे शम्बलं याचितुमागतः। तं पौषधशालास्थितमाकर्ण्य तत्रागते तस्मिन्नुदयनेन पृष्टः श्रीहेमचन्द्राचार्यः
1P कुमारभूपालचरित्रं । 2 P श्रीभीमे। 3 AD 'प्रति' नास्ति। 4 D चउलादेवी। 5 AD पत्तने। 6 B नास्ति। 7 D नास्ति । 8 P निशम्य। 9 B तद्वृत्तान्तः। 10 P 'तृतीये वर्षे' स्थाने 'कृती'। 11 P अवबुस । 12 BP 'भ्रमण' नास्ति। 13 BP श्रीमदनादिभूपतेः अशठो मठे। 14 B मन्यमानः। 15 D पाके। 16 D नास्त्येत
AD क्षेत्ररक्षकैः। 18 B क्रियमाणे। 19 B समुच्चीय०। 20 BP स्थानभाजिषु। 21 D निभृतया दशा। 22 AD नास्ति। 23 BP विविधान् देशान् । 24 BP भ्रम्य। 25 AD शालायामागत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org