SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५१०४-११] चतुर्थ उद्देशः । १३६१ 'कामम्' अनुमतमिदमस्साकम्-परपरितापो जिनैरसातहेतुः प्रज्ञप्तः, परं 'स' परपरितापः 'दुःशले' वाक्छिक्षया दुर्घहे दुर्विनीते शिष्ये 'खलु' निश्चितमिष्यत एव । कुतः ! इत्याह-"आय-परहियकरो" त्ति हेतौ प्रथमा भावप्रधानश्च निर्देशः, ततोऽयमर्थः-आत्मनः परस्य च हितकत्वात् । तत्राऽऽत्मनः शिष्यं शिक्षां ग्राहयतः कर्मनिर्जरालाभः, परस्य तु सम्यग्गृहीतशिक्षस्य यथावत् चरण-करणानुपालनादयो भूयांसो गुणाः । पुनःशब्दो विशेषणे, 5 स चैतद् विशिनष्टि-यो दुष्टाध्यवसायतया परपरितापः क्रियते स एवासातहेतुः प्रज्ञप्तः, यस्तु शुद्धाध्यवसायेनाऽऽत्म-परहितकरः क्रियते स नैवासातहेतुरिति ॥ ५१०८ ॥ अमुमेवार्थ दृष्टान्तेन द्रढयति सिप्पंणेउणियट्ठा, घाते वि सहति लोइया गुरुणो। [जी.भा. २३७९] ण य मधुरणिच्छया ते, ण होंति एसेविहं उवमा ॥ ५१०९॥ 10 "सिप्पं" ति मकारोऽलाक्षणिकः, - शिल्पानि-रथकारकर्मप्रभृतीनि नैपुण्यानि चलिपि-गणितादिकलाकौशलानि तदर्थं लौकिकाः शिक्षकाः 'गुरोः' आचार्यस्य घातानपि सहन्ते, न च 'ते' घातास्तदानीं दारुणा अपि 'मधुरनिश्चयाः' सुन्दरपरिणामा न भवन्ति, किन्तु शिल्पादिपरिज्ञाने वृत्तिलाभ-जनपूजनीयतादिना परिणामस्तेषां सुन्दरो भवतीति भावः । एषैवोपमा 'इह' प्रस्तुतार्थे मन्तव्या, यथा तेषां ते घाता हितास्तथा प्रस्तुतस्यापि दुर्विनीतस्य 16 शिष्यस्येति भावः । अत्रायं बृहद्भाष्योक्तः सोपनयोऽपरो दृष्टान्तः अहवा वि रोगियस्सा, ओसह चाडूहिँ दिज्जए पुट्विं । पच्छा तालेत्तुमवी, देहहियट्ठाएँ दिजइ से ॥ इय भवरोगत्तस्स वि, अणुकूलेणं तु सारणा पुस्विं ।। पच्छा पडिकूलेण वि, परलोगहियट्ट कायव्वा ॥ 20 "ओसह" ति विभक्तिलोपादौषधमिति मन्तव्यम् ॥ ॥ ५१०९॥ अत एव साधुरेवंविधो भवेत्. संविग्गो मद्दविओ, अमुई अणुयत्तओ विसेसन्नू । [जी.भा.२३८३] उज्जुत्तमपरिततो, इच्छियमत्थं लहइ साहू ॥ ५११० ॥ 'संविनः' मोक्षाभिलाषी, 'मार्दविकः' स्तब्धताविकलः, 'अमोचि' गुरूणाममोचनशीलः, 35 'अनुवर्तकः' तेषामेव च्छन्दोऽनुवर्ती, 'विशेषज्ञः' वस्त्ववस्तुविभागवेदी, उद्युक्तः खाध्यायादौ, अपरितान्तो वैयावृत्यादौ, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते ॥ ५११० ॥ अथ "कारणजाते व बोहिगाईसु" ( गा० ५१०६) ति पदं व्याचष्टे बोहिकतेणभयादिसु, गणस्स गणिणो व अच्चए पत्ते । [जी. भा. २३८४] इच्छंति हत्थतालं, कालातिचरं व सज्जं वा ॥ ५१११॥ 30 १तवेदनीयकर्मबन्धनिवन्धनं प्रज्ञ कां० ॥ २१ एतदन्तर्गतः पाठः का० एव वर्तते ॥ ३°णामवश्यन्तयाऽमोचकः 'अनु° का० ॥ ४ °यादौ सोत्साहः, 'अपरितान्तः' वैयावृत्यावौ भनिधान, एवं का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy