SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १३६० 10 15 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनव०प्रकृते सूत्रम् ३ हस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधा पाठोऽत्र बोद्धव्यः । एतेषां त्रयाणामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्याऽहम् ॥ ५१०३ ॥ तत्र हस्तातालं तावद् विवृणोति उग्गिण्णम्मि य गुरुगो, दंडो पडियम्मि होइ भयणा उ । [जी.भा. २३७३] ___ एवं खु लोइयाणं, लोउत्तरियाण वोच्छामि ॥ ५१०४ ॥ । इह हस्तेन उपलक्षणत्वात् खनादिभिश्च यद् आताडनं स हस्तातालः । स च द्विधालौकिको लोकोत्तरिकश्च । तत्र लौकिके हस्ताताले पुरुषवधाय खड्गादाबुद्गीर्णे 'गुरुकः' रूप. काणामशीतिसहस्रलक्षणो दण्डो भवति । पतिते तु प्रहारे यदि कथमपि न मृतस्तदा 'भजना' देशे देशेऽपरापरदण्डलक्षणा भवति । अथ मृतस्तदा तदेवाशीतिसहस्रं दण्डः । एवं 'खुः' अवधारणे, लौकिकानां दण्डो भवति । लोकोत्तरिकाणां तु दण्डमतः परं वक्ष्यामि ॥५१०४॥ हत्थेण व पादेण व, अणवठ्ठप्पो उ होति उग्गिणे । [जी.भा.२३७४] पडियम्मि होति भयणा, उद्दवणे होति चरिमपदं ॥ ५१०५ ॥ हस्तेन वा पादेन वा उपलक्षणत्वाद् यष्टि-मुष्ट्यादिना वा यः साधुः खपक्षस्य परपक्षस्य वा प्रहारमुद्गिरति सोऽनवस्थाप्यो भवति । पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य एव, अथापद्राणः-मृतः तदा 'चरमपदं' पाराञ्चिकं भवति ॥ ५१०५॥ अत्रेदं द्वितीयपदम् ___ आयरिय विणयगाहण, कारणजाते व बोधिकादीसु । करणं वा पडिमाए, तत्थ तु भेदो पसमणं च ॥ ५१०६ ॥ आचार्यः क्षुल्लकस्य विनयपाहणं कुर्वन् हस्तातालमपि दद्यात् । 'कारणजाते वा' गुरुगच्छप्रभृतीनामात्यन्तिके विनाशे प्राप्ते बोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीत । पश्वार्द्धन हस्तालम्बमाह-“करणं वा" इत्यादि, अशिव-पुररोधादौ तत्पशमनार्थ 'प्रतिमां' पुत्तलकं 20 करोति, तत अभिचारुकमन्त्रं परिजपन् 'तत्रैव' प्रतिमायां भेदं करोति, ततस्तस्योपद्रवस्य प्रशमनं भवति ॥ ५१०६ ॥ एषा नियुक्तिगाथा अत एनां विवृणोति विणयस्स उ गाहणया, कण्णामोड-खडुगा-चवेडाहिं। [जी.भा. २३७६] सावेक्व हत्थतालं, दलाति मम्माणि फेडिंतो ॥ ५१०७॥ इह विनयशब्दः शिक्षायामपि वर्तते, यत उक्तम् – "विनयः शिक्षा-प्रणत्योः” (हैम० अने० त्रिखर० श्लो० ११०५) इति । ततोऽयमर्थः--'विनयस्य' ग्रहणशिक्षाया आसेवनाशिक्षाया वा ग्राहणायां क्रियमाणायां कर्णामोटकेन खड्डकाभिः चपेटाभिर्वा 'सापेक्षः' जीवितापेक्षां कुर्वन् अत एव 'मर्माणि स्फेटयन्' येषु प्रदेशेष्वाहतः सन् म्रियते तानि परिहरन् आचार्यः क्षुल्लकस्य हस्तातालं ददाति ॥ ५१०७ ॥ अत्र परः प्राह-ननु परस्य परितापे क्रियमाणेऽसातवेदनीयकर्मबन्धो भवति तत् कथमसावनुज्ञायते ? उच्यते कामं परपरितावो, असायहेतू जिणेहिँ पण्णत्तो। [जी.भा. २३७८] आत-परहितकरो पुण, इच्छिाइ दुस्सले स खलु ॥ ५१०८ ॥ १ 'कर्णामोटकेन' प्रतीतेन 'खड्कया' टोलकेन 'चपेटया' प्रसिद्धया 'सापेक्षः' का० ॥ २°स्य सम्यक शिक्षामप्रतिपद्यमानस्य हस्ता कां• ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy