SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५०९५-५१०३ ] चतुर्थ उद्देशः । १३५९ 'नारी' स्त्री सा प्रायेणापरिग्रहा न भवति, पितृ-पतिप्रभृतीनामन्यतरेण परिगृहीता भवतीति भावः । उक्तं च पिता रक्षति कौमारे, भर्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्यमर्हति ॥ ततो नासावदत्ता सती कल्पते प्रत्राजयितुम् । साऽपि च काचिददत्ताऽपि कल्पते, यथा 5 पद्मावतीदेवी करकण्डुमाता प्रत्राजिता, यथा वा क्षुल्लक कुमारमाता योगसङ्ग्रहाभिहिता ( आव० हारि० टीका निर्युक्तिगा० १२८८ - ९० पत्र ७०१ ) यशोभद्रा नाम्नी प्रत्राजिता ॥ ५०९९ ॥ अथ द्वितीय पदमाह arrपदं आहारे, अद्धाणे हंसमादिगो उबही । [ जी. भा. २३६३-२३६७] उवउजिऊण पुत्रि, होहिंति जुगप्पहाण ति ।। ५१०० ।। 10 द्वितीयपदमाहारादिषु त्रिष्वपि अभिधीयते — तत्राऽऽहारेऽध्वानं प्रवेष्टुकामास्ततो वा उत्तीर्ण उपलक्षणत्वाद् अशिवादौ वा वर्तमाना असंस्तरणे अदत्तमपि भक्त- पानं गृह्णीयुः । आगाढे कारणे उपधिमपि हंसादेः सम्बन्धिना प्रयोगेणोत्पादयेत् । सचितविषयेऽपि — 'भवि - ष्यन्त्यमी युगप्रधानाः' इत्यादिकं पुष्टालम्बनं 'पूर्व' प्रथममेव ' उपयुज्य' परिभाव्य गृहस्थलकान् अन्यतीर्थंकलकान् वा हरेत् ।। ५१०० ॥ इदमेव भावयति असिवं ओम विहं वा, पविसिउकामा ततो व उत्तिष्णा । थलि लिंगि अन्नतित्थिग, जातितु अदिण्णें गिण्हंति ।। ५१०१ ।। अशिवगृहीते विषये स्वयं वा साधवोऽशिवगृहीता भक्त-पानलाभाभावान्न संस्तरेयुः, अवमंदुर्भिक्षं तत्र वा भक्त पानं न लभेरन्, 'विहम्' अध्वानं वा प्रवेष्टुकामास्ततो वा उत्तीर्णा न संस्तरेयुः, ततः खलिङ्गिनां या स्थलिका - देवद्रोणी तस्यां याचन्ते, यदि ते न प्रयच्छन्ति तदा 20 लादपि गृह्णन्ति । अथ बलवन्तस्ते दारुणप्रकृतयो वा ततोऽन्यतीर्थिकानामपि स्थलीषु याच्यते, यदि न प्रयच्छन्ति ततः स्वयमेव प्रकटं प्रच्छन्नं वा गृह्णीयुः । एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृह्णन्ति । असंस्तरणे उपधिरप्येवमेव स्तैन्यप्रयोगेण ग्रहीतव्यः ॥ ५१०१ ॥ नाऊण य वोच्छेदं, पुव्वगते कालियाणुतोगे य । [जी.भा. २३६७ ] गिहि अण्ण तित्थियं वा, हरिज एतेहिँ हेतू हिं ॥ ५१०२ ॥ पूर्वगते कालिकानुयोगे वा व्यवच्छेदं ज्ञात्वा यो गृहस्थलकोsन्यतीर्थिकक्षुल्लको वा ग्रहण - धारणा मेधावी स याचितो यदा न लभ्यते तदा स्वयमपि गृह्णीयात् । 'ऐतैः' एवमादिभिः 'हेतुभिः' कारणैर्गृहस्थमन्यतीर्थिकं वा हरेत् ।। ५१०२ ॥ गतमन्यधार्मिकस्तैन्यम् । अथ " हत्थादालं दलेमाणे" इत्यादि पाठत्रयं विवरीषुराह - 30 हत्थाताले हत्थालंबे, अत्थादाणे य होति बोधव्वे । [ जी. भा. २३७१ ७१ ] एतेसिं णाणत्तं वोच्छामि अहाणुपुव्वीए ।। ५१०३ ॥ १ एतचिद्वान्तर्गतः पाठः कां० एव वर्तते ॥ Jain Education International 15 For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy