________________
१३५८
सनियुक्ति-लधुनाय-वृत्ति के बृहत्कल्पसूत्रे [ अनव०प्रकृते सूत्रम् ३ वत्तम्मि णत्थि पुच्छा, खेत्तं थामं च णाऊणं ।। ५०९५ ॥ क्षुल्लको वा क्षुल्लिका वा योऽद्यापि अव्यक्तः स यस्य शाफ्यादेः सम्बन्धी तमपृष्ट्वा यदि तं क्षुल्लकं क्षुल्लिका वा नयति ततः 'स्तेनः' अन्यधार्मिकस्तैन्यकारी स मन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् । यस्तु व्यक्तस्तत्र नास्ति पृच्छा, तामन्तरेणापि स प्रव्राजनीयः । किं सर्वथैव ? उत न ! इत्याशझ्याऽऽह-क्षेत्रं स्थाम च ज्ञात्वा । किमुक्तं भवति ?-यदि विवक्षितं क्षेत्रं शाक्यादिभावितं राजवल्लभतादिकं वा तेषां तत्र बलं तदा पृच्छामन्तरेण व्यक्तोऽपि प्रव्राजयितुं न कल्पते, अन्यथा तु कल्पत इति ॥ ५०९५ ।। एवं तावल्लिङ्गप्रविष्टानां स्तैन्यमुक्तम् । अथ गृहस्थानां तदेवाह
एमेव होति तेण्णं, तिविहं गारत्थियाण जं वुत्तं । 10 गहणादिगा य दोसा, सविसेसतरा भवे तेसु ॥ ५०९६ ॥
एवमेवागारस्थानामपि 'त्रिविधम्' आहारादिभेदात् त्रिप्रकारं स्तन्यं भवति यदनन्तरमेव परतीथिकानामुक्तम् । 'तेषु च' गृहस्थेषु आहारादिकं स्तेनयता ग्रहणादयो दोषाः सविशेषतरा भवेयुः । ते हि राजकुले करादिकं प्रयच्छन्ति, ततस्तबलेन समधिकतरान् ग्रहणा-ऽऽकर्षणादीन् कारयेयुः ॥ ५०९६ ॥ कथं पुनरमीषामाहारादिकं स्तेनयति ? इति उच्यते10 आहारे पिट्ठाती, तंतू खुड्डादि जं भणित पुव्वं ।
पिटुंडिय कन्चट्ठी, संछुभण पडिग्गहे कुसला ॥ ५०९७ ॥ आहारे--पिष्टादिकं बहिर्विरलितं दृष्ट्वा क्षुलिकाः स्तेनयति । उपधौ - "तंतु" त्ति सूत्राष्टिकाम् उपलक्षणत्वाद् वस्त्रादिकं वाऽपहरति । सचित्ते-क्षुल्लका-बालकस्तम् आदिशब्दाद्
अक्षुल्लकं वा स्तेनयति । एवं यदेव पूर्व परतीथिकानां भणितं तदेवात्रापि मन्तव्यम् । कथं 20 पुनः पिष्टं स्तेनयति ? इत्याह-"पिटुंडि" इत्यादि, काश्चित् क्षुल्लिका भिक्षामटन्त्यः किञ्चिद्
गृहं प्रविष्टाः, तत्र च बहिः पिष्टं विसारितमास्ते, तच्च दृष्ट्वा तासां मध्यादेका कल्पस्थिका पिष्टपिण्डिकां गृहीत्वा पतगृहे प्रक्षिप्तवती, सा चाविरतिकया दृष्टा ततो भणितम् -एनां पिष्टपिण्डिकामत्रैव स्थापयत; ततस्तया क्षुल्लिकया कुशलत्वेनान्यस्याः सङ्घाटिकाया अन्तरे
प्रक्षिप्ता । एवं सूत्राष्टिकामपि दक्षत्वेनापहरेत् ॥ ५०९७ ॥ अथ सचित्तविषयं विधिमाह -- 25 नीएहिँ उ अविदिन्नं, अप्पत्तवयं पुमं न दिक्खिति । [जी.भा.२३६१]
__अपरिग्गहो उ कप्पति, विजढो जो सेसदोसेहिं ।। ५०९८ ॥ 'निजकैः' माता-पितृप्रभृतिभिः स्वजनैः 'अवितीर्णम्' अदत्तम् 'अप्राप्तवयसम्' अव्यक्तं पुमांसं न दीक्षयन्ति । यदि पुनरपरिगृहीतोऽव्यक्तः सः 'शेषदोषैः' बाल-जड-व्याधितादिभिविप्रमुक्तः प्रव्राजयितुं कल्पते ॥ ५०९८ ॥ व स्त्रीविषयं विधिमाह--
अपरिग्गहा उ नारी, ण भवति तो सा ण कप्पति अदिण्णा ।
सा वि य हु काय कप्पति, जह पउमा खुडमाता वा ।। ५०९९ ॥ १°हारे-कस्याप्यगारिणो गृहाङ्गणे पिष्टा' का० ॥ २°क्तं पुरुषं 'न दीक्षयन्ति' न प्रवाजयन्ति । यदि कां• ॥ ३॥ एतचिहान्तर्गतमवतरणं भा० एव वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org