________________
१३६२
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनव प्रकृते सूत्रम् ३ बोधिकस्तेनभये आदिशब्दात् श्वापदादिभयेषु वा यदि 'गणस्य' गच्छस्य 'गणिनो वा' आचार्यस्य 'अत्ययः' आत्यन्तिको विनाशः प्राप्तस्तदा 'कालातिचरं वा' कालातिक्रमेण 'सद्यो वा' तत्कालमेव हस्ततालमिच्छन्ति, गीतार्था इति गम्यते ॥ ५१११ ॥ ___ अर्थ हस्तालम्बं व्याख्यानयति
असिवे पुरोवरोधे, एमादीवइससेसु अभिभूता । संजायपचया खलु, अण्णेसु य एवमादीसु ॥ ५११२ ॥ मरणभएणऽभिभूते, ते णातुं देवतं वुवासंते ।
पडिमं काउं मज्झे, चिट्ठति मंते परिजवेंतो ॥५११३॥ [जी.भा.२३९१-९२] अशिवेन लोको भूयान् म्रियते, परवलेन वा पुरं समन्तादुपरुद्धम् , तत्र बहिःकटकयोधैः 10 आभ्यन्तराणां कटकमदः क्रियते, अन्नक्षयाद्वा क्षुधा म्रियते, आदिशब्दाद् गलगण्डादिभिर्वा
रोगैर्दिने दिने प्रभूतो जनो मरणमश्नुते, एवमादिभिः 'वैशसैः' दुःखैरभिभूतास्ते पौरजनाः । 'सञ्जातप्रत्ययाः' 'योऽत्र पुरे आचार्यों बहुश्रुतो गुणवांस्तपस्वी स शक्तो वैशसमिदं निरोद्धुम् , नान्यः कश्चिद्' इति समिति-सम्यग् जातः प्रत्ययो येषां ते तथा, न केवलमत्रैव किन्तु
अन्येष्वप्येवमादिषु सञ्जातप्रत्ययास्ते सम्भूय तमाचार्य 'बायख' इति शरणमुपगताः प्राञ्जलि. 15 पुटाः पादपतितास्तिष्ठन्ति ॥ ५११२ ॥
ततः स आचार्यस्तान् पौरजनान् मरणभयेनाभिभूतान् देवता मिवाऽऽत्मानं पर्युपासीनान् ज्ञात्वा तदनुकम्पापरीतचित्तः प्रतिमां कृत्वा तत अभिचारुकमन्त्रान् परिजपन् तां प्रतिमा मध्यभागे विध्यति, ततो नष्टा सा कुलदेवता, प्रशमितः सर्वोऽप्युपद्रवः । एवं विधहस्तालम्बदायी यदाऽभ्युत्तिष्ठते तदा तत्कालमेव नोपस्थाप्यते किन्तु कियन्तमपि कालं गच्छ एव वसन् 20 व्यामर्दनं कार्यते ॥ ५११३ ॥ अथाऽर्थादानमाह
अणुकंपणा णिमित्ते, जायण पडिसेहणा सउणिमेव ।
दायण पुच्छा य तहा, सारण उब्भावण विणासे ॥ ५११४ ॥ कस्याप्याचार्यस्य भागिनेयो व्रतं परित्यज्य मुत्कलापयति, तत आचार्यस्य 'अनुकम्पा' 'कथमयं द्रव्यमन्तरेण गृहवासमध्यासिष्यते ?' इत्येवंलक्षणा बभूव । स च 'निमित्ते अतीव 25 कुशलः' इति कृत्वा तेनैवावर्जितयोर्द्वयोर्वणिजोरन्तिके तं भागिनेयं रूपकयाचनाय प्रेषितवान् । स च तत्रैकेन वणिजा 'किं मम शकुनिका रूपकान् हदते ?' एवमुक्त्वा प्रतिषिद्धः, द्वितीयेन तु रूपकनवलकानां दर्शना कृता । द्वितीये च वर्षे द्वाभ्यामपि वणिग्भ्यां पृच्छा कृता । तत आचार्येण 'सारणा' क्रयाणकग्रहणविषया शिक्षा दत्ता । ततो येन रूपका न दत्तास्तस्य
सर्वखविनाशः समजनि, येन तु दत्तास्तस्य 'उद्भावनं' महर्द्धिकतासम्पादनं कृतवान् । एष 30 नियुक्तिगाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः । तच्चेदम्
उजेणीए एगो ओसन्नायरिओ नेमित्तितो । तस्स य दुन्नि मित्ता वाणियगा, ते तं आपुच्छिउं आपुच्छिउं ववहरंति-किं भंडं गिहामो मुयामो वा ? । एवं ते इस्सरीभूया । तस्स य आयरियस्स भागिणेज्जो भोगाभिलासी आगम्म तं आयरियं केवइए मग्गति ताहे आयरियेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org