________________
१३५६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनव०प्रकृते सूत्रम् ३ कारणजाय अवहितो, गणं धरतो तु अवहरंतस्स ।
जाहेगो निष्फण्णो, पच्छा से अप्पणो इच्छा ॥ ५०८४॥ यः कारणजातेऽपहृतः स तदीयं गणं धारयन् अपहरत एवाभान्यो भवति । अथ येन कारणेनापहृतस्तत् कारणं न पूरयति तदा पूर्वेषामेवाभवति नापहरतः । स च कारणापहृत। स्तस्मिन् गणे तावदास्ते यावदेकोऽपि गीतार्थों निष्पन्नः, पश्चात् तस्याऽऽत्मीया इच्छा, तत्र वा तिष्ठति पूर्वेषां वा सकाशे गच्छति । यस्तु निष्कारणेऽपहृतः स एकस्मिन् निर्माते नियमात् पूर्वेषामन्तिके गच्छति, न तस्याऽऽत्मीयेच्छेति भावः ॥ ५०८४ ॥ गतं शैक्षद्वारम् । अथाऽऽहारविधिमाह
ठवणाघरम्मि लहुगो, मादी गुरुगो अणुग्गहे लहुगा ।
अप्पत्तियम्मि गुरुगा, वोच्छेद पसज्जणा सेसे ॥ ५०८५ ॥ दानश्राद्धादिकुलं स्थापनागृहं भण्यते, तस्मिन् य आचार्यैः असन्दिष्टः अननुज्ञातो वा प्रविशति तस्य मासलघु । अथवा 'प्राघूर्णक-ग्लानार्थमहमिहाऽऽयातः' इति तेषां श्राद्धानां पुरतो मायां करोति ततो मायिनो मासगुरुकम् । एवमुक्ते यदि ते श्राद्धाः 'अनुग्रहोऽयम्' इति मन्यन्ते तदा चतुर्लधु । अथाप्रीतिकं कुर्वन्ति ततश्चतुर्गुरवः, यच्च तद्रव्यव्यवच्छेदादि. 16शेषदोषाणां प्रसजना' प्रसङ्गस्तन्निष्पन्नं प्रायश्चित्तम् ॥ ५०८५ ।। इदमेव व्याचष्टे
अज अहं संदिट्ठो, पुट्ठोऽपुट्ठो वे साहती एवं ।
पाहुणग-गिलाणट्ठा, तं च पलोद्देति तो वितियं ॥ ५०८६ ॥ कश्चिदाचार्यैरसन्दिष्टः स्थापनाकुलेषु प्रविश्य पृष्टोऽपृष्टो वा इदं भणति-अद्याहं गुरुभिः 'सन्दिष्टः' प्रेषित इति, ततो मासलघु । यदि च पूर्व सन्दिष्टः सङ्घाटकः प्रविष्ट आसीत् 20 श्राद्धैश्च तस्यासन्दिष्टस्याने इदं भणितं भवेत्.-~सन्दिष्टसङ्घाटकस्य दत्तमिति; ततो ब्रूयात् - प्राघूर्णकार्थ ग्लानार्थ वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति ततो 'द्वितीयं' मासगुरु ॥ ५०८६ ॥ ते च श्राद्धा विपरिणमेयुः, विपरिणताश्चाऽऽचार्यादीनां प्रायोग्यं न दद्युः ततः शुद्धं शुद्धेनाप्येतत् प्रायश्चित्तम्
आयरि-गिलाण गुरुगा, लहुगा य हवंति खमग-पाहुणए । 25
गुरुगो य बाल-बुड्ढे, सेसे सव्वेसु मासलहुं ॥५०८७ ॥ ___ आचार्यस्य ग्लानस्य च प्रायोग्यमददानेषु श्राद्धेषु चतुर्गुरवः । क्षपकस्य प्राघुणकस्य च योग्यमददानेषु चतुर्लघवः । बाल-वृद्धानां योग्येऽलभ्यमाने गुरुमासः । 'शेषाणाम् एतद्यति. रिक्तानां सर्वेषामपि प्रायोग्येऽलभ्यमाने मासलघु ॥ ५०८७ ॥
गतं साधर्मिकस्तैन्यम् । अथाऽन्यधार्मिकस्तैन्यमाह30
परधम्मिया वि दुविहा, लिंगपविट्ठा तहा गिहत्था य ।
तेसिं तिण्णं तिविहं, आहारे उवधि सञ्चित्ते ॥ ५०८८ ॥ १पन्नमपरं प्राय का• ॥ २ इदं “साहति" त्ति भण का० ॥ ३ तदीयमायाविपरिणतत्वाद् भाचा को.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org