________________
भाष्यगाथाः ५०७६-८३ ]
चतुर्थ उद्देशः ।
आणादऽणंतसंसारियत्त बोहीय दुल्लभत्तं च ।
साहम्मियतेण्णम्मि, पमत्तछलणाऽधिकरणं च ।। ५०७९ ।।
शैक्षमपहरत आज्ञाभङ्गादयो दोषा भवन्ति । अनन्तसंसारिकत्वं च भगवतामाज्ञाभङ्गाद् भवति । बोधेश्च दुर्लभत्वं जायते । साधर्मिकस्तैन्यं च कुर्वाणः प्रमत्तो लभ्यते । प्रमत्तस्य च प्रान्तदेवतया छलना भवति । यस्य च सम्बन्धी सोऽपहियते तेन समम् ' अधिकरणं' कलह उप-5 जायते ॥ ५०७९ ॥ एवं तावत् पुरुषविषया दोषा उक्ताः । अथ स्त्रीविषयांस्तानेवातिदिशतिएमेव य इत्थी, अभिधारेंतीऍ तह वयंतीए ।
वत्तऽन्वत्ताएँ गमो जहेव पुरिसस्स नायव्वो । ५०८० ॥
एवमेव स्त्रिया अपि शैक्षिकायाः अभिधारयन्त्यास्तथा "वयंतीए " त्ति ससहायायाः प्रत्रजितुं व्रजन्त्या व्यक्ताया अव्यक्तायाश्च गमः स एव ज्ञातव्यो यथा पुरुषस्योक्तः ॥ ५०८० || 10 अथ प्रावचनिकपदं व्याचष्टे
१३५५
एवं तु सो अवधितो, जाधे जातो सयं तु पावयणी । निक्कारणे य गहितो, वच्चति ताहे पुरिल्लाणं ॥ ५०८१ ।।
‘एवम्' अन्तरोक्तैः प्रकारैः 'सः' शैक्षोऽपहृतः सन् यदा स्वयमेव प्रावचनिको जातः, अन्यो वा निष्कारणे यः केनापि गृहीतः स आत्मनो दिवपरिच्छेदं कृत्वा भूयोऽपि बोधिला - 15 भावाप्तये पूर्वेषामेवाचार्याणामन्तिके व्रजति ॥ ५०८१ ॥
अन्नस्स व असतीए, गुरुम्मि अब्भुञ्जएगतरजुत्ते ।
धारेति तमेव गणं, जो य हडो कारणजाते || ५०८२ ॥
येन स शैक्षो निष्कारणेऽपहृतस्तस्य गच्छेऽपरः कोऽप्याचार्य पदयोग्यो न विद्यते ततोऽन्यस्याभावे यद्वा स गुरुः–आचार्योऽभ्युद्यतस्यैकतरेण युक्तः, अभ्युद्यतमरणम् अभ्युद्यतविहारं 20 वा प्रतिपन्न इत्यर्थः, ततो यदि कोऽपि शिष्यस्तेषां निष्पन्नो नास्ति तदा तमेव गणमसौ धारयति यावत् कोऽपि तत्र निष्पन्न इति । यश्च कारणजाते केनाप्याचार्येण हृतः सोऽपि तमेव गणं धारयति ॥ ५०८२ ॥ किं पुनस्तत् कारणम् ? इत्याह
नाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे च । अजाकारणजाते, कप्पति सेहावहारो तु || ५०८३ ॥
25
कोऽप्याचार्यों बहुश्रुतस्तस्य पूर्वगते किञ्चिद् वस्तु प्राभृतं वा कालिकानुयोगेऽपि श्रुतस्क - धोऽध्ययनं वा विद्यते तच्चान्यस्य नास्ति ततो यद्यन्यस्य न सङ्क्राम्यते तदा व्यवच्छिद्यते । एवं पूर्वगते कालिकानुयोगे च व्यवच्छेदं ज्ञात्वा तं च सम्प्रस्थितं शैक्षं ग्रहण - धारणासमर्थ विज्ञाय भक्तदान-धर्मकथादिभिर्विपरिणाम्य झम्पनादीन्यपि कुर्वाणः शुद्धः । यद्वा तस्याssचार्यस्य नास्ति कोऽप्यार्याणां परिवर्तकस्ततस्तासामपि कारणजाते शैक्षमपहरेत् । एवं कल्पते :0 शैक्षापहारः कर्तुम् || ५०८३ ॥ तस्य च कारणेऽपहृतस्य को विधि: ? इत्याह
Jain Education International
१ 'याः कमप्याचार्यम् 'अभिधारयन्त्याः' असहायायास्तथा कां० ॥ २णां समीपे ब्रज कां० ॥
For Private & Personal Use Only
www.jainelibrary.org