________________
१३५४
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनव प्रकृते सूत्रम् ३ ततः स साधुर्मदीयमिदमन्न-पानम् 'उपजीव' भुंश्वेति ब्रुवाणो यदि 'साधर्मिकोऽयम्' इत्यनुकम्पया ददाति तदा शुद्धः । शैक्षेण पृष्टोऽपृष्टो वा यदि 'एवमेव' अनुकम्पया धर्मकथा करोति तदा शुद्धः । 'इतरथा' अपहरणार्थ भक्त-पानं ददतो धर्म वा कथयतो 'दोषः' चतुगुरुकं प्रायश्चित्तम् ॥ ५०७५ ॥ अपहरणप्रयोगानेव दर्शयति6
भत्ते पण्णवण निगृहणा य वावार झंपणा चेव ।
पत्थवण-सयंहरणे, सेहे अव्वत्त वत्ते य ॥ ५०७६ ॥ अपहरणार्थ भक्त-पानं ददाति धर्म वा तस्य पुरतः प्रज्ञापयति । ततः स शैक्ष आवृत्तः सन् भणति-भवत एव सकाशेऽहं प्रव्रजामि किन्तु न शक्नोमि येनाऽऽनीतस्तत्पुरतः स्थातुम् ,
ततो मां गुपिले प्रदेशे निगृह्त; ततोऽसौ तं व्यापारयति-अमुकत्र निलीय तिष्ठेति । 10 ततस्तं तत्र निलीनं साधुः पलालादिना झम्पयति, स्थगयतीत्यर्थः । अथवाऽन्यैः सार्धमन्यं ग्राम
प्रस्थापयति, एकाकिनं वा प्रेषयति-अमुकत्र ग्रामादौ व्रज, अहमप्यमुख्मिन् दिवसे तत्राऽऽगमिष्यामि । अथवा खयमेव गृहीत्वा तमपहरति । एतानि षट् पदानि भवन्ति, तद्यथाभक्तप्रदानं १ धर्मकथा २ निगृहनावचनं ३ व्यापारणं ४ झम्पनं ५ प्रस्थापन-स्वयंहरणं ६ चेति । एतेषु षट्सु पदेषु शैक्षे व्यक्तेऽव्यक्ते च प्रायश्चित्तमिदं भवति ॥ ५०७६ ॥
गुरुओ चउलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य ।।
भिक्खु-गणा-ऽऽयरियाणं, मूलं अणवट्ठ पारंची ॥ ५०७७ ॥ भिक्षुर्यद्यव्यक्तशैक्षस्यापहरणार्थ भक्तं ददाति तदा मासगुरु, धर्मप्रज्ञापनायां चतुर्लघु, निगूहनवचने चतुर्गुरु, व्यापारणे षड्लघु, झम्पने षड्गुरु, प्रस्थापने स्वयंहरणे वा च्छेदः । एवमव्यक्ते शैक्षे भणितम् । अव्यक्तो नाम यस्याद्यापि श्मश्रु न सञ्जातम् । यस्तु व्यक्तः-सञ्जात20 श्मश्रुस्तत्र चतुर्लघुकादारब्धं मूलं यावद् भिक्षोः प्रायश्चित्तम् । गणिनः-उपाध्यायस्य चतुर्लघुकादारब्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्गुरुकादारब्धं पाराश्चिके पर्यवस्यप्ति ॥ ५०७७ ।। एवं ससहाये शैक्षे भणितम् , यः पुनरसहायोऽभिधारयन् व्रजति तत्र विधिमाह
अभिधारंत वयंतो, पुट्ठो वच्चामऽहं अमुगमूलं ।
पण्णवण भत्तदाणे, तहेव सेसा पदा णस्थि ।। ५०७८ ॥ 25 कोऽपि शैक्ष एकाकी कमप्याचार्यमभिधारयन् प्रव्रज्याभिमुखो व्रजति । तेन क्वचिद् ग्रामे पथि वा साधुं दृष्ट्वा वन्दनकं कृतम् । साधुना पृष्टः-क गच्छसि ? । स प्राह–अमुकस्याऽs. चार्यस्य पादमूले प्रव्रजनार्थ व्रजामि । एवमुक्ते यदि भिक्षुरव्यक्तशैक्षस्य भक्तदानं करोति मासगुरु, धर्मप्रज्ञापनायां चतुर्लघु; व्यक्तशैक्षस्य भक्तदाने चतुर्लघु, धर्मकथायां चतुर्गुरु । उपाध्याया-ऽऽचार्ययोर्यथाक्रमं षड्लघु षङ्गुरुकं च भवति, अधस्तनमेकैकं पदं हसतीति भावः । 30 शेषाणि तु' निगृहन-व्यापारण-झम्पनादीनि पदानि न सन्ति, असहायत्वात् , तदभावात् प्रायश्चित्तमपि नास्तीति ॥ ५०७८ ॥ एते चापरे दोषाः
१"तस्तेन सह स्था' का० ॥ २ एतदनन्तरम् तद्यथा- इत्यवतरणं कां० ॥ ३ 'घु-पडोः पर्यवस्थति, अध° कां० ॥ ४ °मपि तद्विषयं ना कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org