________________
भाष्यगाथाः ५०६८-७५] चतुर्थ उद्देशः ।
१३५३ अथ 'सुव्यक्तं' सत्येनैव ध्यामिप्त उपधिः ततो गुरुभिस्तथैव प्रेषणं कृतम् , प्रेषितश्च सन् येनाचार्या निमन्त्रितास्तस्मादन्यस्माद्वा श्रावकाद् वस्त्रादिकमुधिं गृहीत्वा अन्तरा 'लुब्धः' लोभाभिभूतो यदि गृह्णाति तदा लघुको मासः । आगतोऽपि यदि गुरूणां न प्रयच्छति तदा चतुर्गुरवः, सूत्रादेशाद्वाऽनवस्थाप्यो भवति ॥ ५०७१ ॥ गतं ध्यामनाद्वारम् । अथ प्रस्थापनाद्वारमाह
उकोस सनिजोगो, पडिग्गहो अंतरा गहण लुद्धो।
लहुगा अदेंतें गुरुगा, अणवटुप्पो व आदेसा ॥ ५०७२ ॥ केनाप्याचार्येण कस्यापि संयतस्य हस्ते अपराचार्यस्य ढौकनहेतोः प्रतिग्रहः प्रेषितः, स च 'उत्कृष्टः' उत्कृष्टोपधिरूपो यद्वा वृत्त-समचतुरस्र-वर्णाढ्यतादिगुणोपेतः, तथा सह नियोगेनपात्रकबन्धादिना यः स सनिर्योगः । एवंविधस्य प्रतिग्रहस्य 'अन्तरा' अपान्तराल एवासौ 10 लुब्धः 'ग्रहणं' खीकरणं करोति तत्र चतुर्लघु । तत्र गतस्तेषां । सूरीणां तं प्रतिग्रहं - न प्रयच्छति चतुर्गुरवः, सूत्रादेशेन वाऽनवस्थाप्यो । ऽसौ द्रष्टव्यः । ॥ ५०७२ ॥ गतं प्रस्थापनाद्वारम् , अथ शैक्षद्वारमाह
पन्चावणिज बाहि, ठवेत्तु भिक्खस्स अतिगते संते ।
सेहस्स आसिआवण, अभिधारेते व पावयणी ॥ ५०७३॥ 16. कोऽपि साधुः 'प्रव्राजनीयं' सशिखाकं शैक्षं गृहीत्वा प्रस्थितः, तं च भिक्षाकाले कापि ग्रामे बहिः स्थापयित्वा भिक्षार्थम् अतिगतः-प्रविष्टः, प्रविष्टे च सति तस्मिन् अपरः साधुतं शैक्षं दृष्ट्वा विप्रतार्य च तस्य "आसियावणं" अपहरणं करोति । साधुविरहितो वा एकाकी कमपि साधुमभिधारयन्-मनसि कुर्वन् शैक्षो व्रजेत् तमपरः साधुर्विप्रतार्य प्रवाजयेत् । एतौ द्वावपि यदा प्रावचनिको जातौ तदा द्वावपि शैक्षौ खयमेवाऽऽत्मनो दिक्परिच्छेदं कुरुत इति 20. सवगाथासमासार्थः ॥ ५०७३ ॥ अथैनामेव विवृणोति
सण्णातिगतो अद्धाणितो व वंदणग पुच्छ सेहो मि । सो कत्थ मज्झ कजे, छात-पिवासस्स वा अडति ॥ ५०७४ ॥ मज्झमिणमण्ण-पाणं, उवजीवऽणुकंपणाय सुद्धो उ ।
पुट्ठमपुढे कहणा, एमेव य इहरहा दोसो ॥ ५०७५ ॥ संज्ञाभूमिगत आदिशब्दाद् भक्तादिपरिष्ठापनिकायं निर्गतः कोऽपि साधुः शैक्षं दृष्टवान् । अथवा 'आध्वनिकः' पथिकोऽसौ साधुस्ततः पथि गच्छन् शैक्षं दृष्टवान् । तेन च वन्दनके कृते सति साधुः पृच्छति-कोऽसि त्वम् ? कुत आगतः? क वा प्रस्थितः । शैक्षः प्राहअमुकेन साधुना सार्द्ध प्रस्थितः प्रव्रजितुकामः शैक्षोऽस्म्यहम् । साधुः पृच्छति-स. .साधुः सम्प्रति क गतः ? । शैक्षो भणति-स मम कार्य बुभुक्षितस्य पिपासितस्य वा भक्त-पानार्थ 30: पर्यटति ॥ ५०७४ ॥
१ भा० विनाऽन्यत्र-पधिं कृत्वा अन्त ताटी० मो• डे० । पधि मार्गयित्वा अन्त का ॥ २-३ एतदन्तगतः पाठः भा० कां० नास्ति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org