SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १३५२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनव०प्रकृते सूत्रम् ३ मासगुरुकलक्षणं पदं हसति, चतुर्लघुकादारब्धमनवस्थाप्ये निष्ठां यातीत्यर्थः । आचार्यस्याप्य. दृष्टेऽनवस्थाप्यान्तमेव, दृष्टे तु चतुर्गुरुकादारब्धं पाराश्चिके तिष्ठति ॥ ५०६७ ॥ गतं साधर्मिकोपधिस्तैन्यद्वारम् । अथ व्यापारणाद्वारमाह वावारिय आणेहा, बाहिं घेत्तूण उवहि गिण्हति । लहुगो अदिति लहगा, अणवद्रप्पो व आदेसा ॥ ५०६८ ॥ - 'व्यापारिता नाम' गुरुभिः प्रेषिताः, यथा-"आणेह" ति उपधिमुत्पाद्याऽऽनयतं । ते चैवमुक्ता अनेकविधमुपधिं गृहिभ्यः 'गृहीत्वा' उत्पाद्य 'बहिरेव' आचार्यसमीपमप्राप्ता उपधिं गृह्णन्ति, 'इदं तव इदं मम' इति विभज्य खयमेव खीकुर्वन्तीत्यर्थः; एवं गृह्णतां मासलघु । __ आगता आचार्यस्य न ददति चतुर्लघवः, प्रस्तुतसूत्रादेशाद्वा स स खच्छन्दवस्त्रग्राहकः साधु10वों - ऽनवस्थाप्यो भवति ॥ ५०६८ ॥ गतं व्यापारणाद्वारम् । अथ ध्यामनाद्वारम्--- सा च ध्यामना द्विविधा-सती असती च । तत्रासती तावदाह दद निमंतण लुद्धोऽणापुच्छा तत्थ गंतु णं भणति । झामिय उवधी अह तेहि पेसितो गहित जातो य ॥५०६९ ॥ आचार्याः केनापि दानश्राद्धादिना विरूपरूपैर्वस्त्रैनिमन्त्रिताः, तैश्च तानि प्रतिषिद्धानि । 11 एकश्च साधुस्तां निमन्त्रणां श्रुत्वा तानि च सुन्दराणि वस्त्राणि दृष्ट्वा 'लुब्धः' लोभं गतः । तत आचार्यमनापृच्छय “णं" इति तं श्रावकं तत्र गत्वा भणति-अस्माकमुपधिः 'ध्यामितः' दग्धः ततोऽहं तैराचार्यैर्युष्माकं सकाशे वस्त्रार्थ प्रेषितः; एवमुक्ते दत्तस्तेनोपधिः । स च गृहीत्वा गतः, अन्ये च साधव आगताः। श्राद्धेन भणितम्-युष्माकमुपधिर्दग्ध इति कृत्वा यो भवद्भिः साधुः प्रेषितस्तस्य नूतनोपधिर्दत्तो वर्तते, यदि न पर्याप्तं ततो भूयोऽपि ददामीति । साधवो 20 ब्रुवते-नास्माकमुपधिर्दग्धो न वा वयं कमपि प्रेषयामः । एवं स लोभाभिभूतः साधुस्तेन श्रावकेण ज्ञातः, यथा-गुरूणां पृच्छामन्तरेणायं गृहीतवान् ॥ ५०६९ ॥ ततश्च किं भवति ? इत्याह लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्या । मूलं च तेणसद्दे, वोच्छेद पसज्जणा सेसे ॥ ५०७० ॥ 25. एवं तेन साधुना स्तैन्येन वस्त्रेषु गृहीतेषु यद्यप्यसौ श्राद्धोऽनुग्रहं मन्यते-'यथाऽपि तथाऽपि गृह्यताममी साधवः' इति तथापि चतुर्लघवः । अथाप्रीतिकं करोति ततश्चतुर्गुरवः प्रायश्चित्तं कर्तव्याः । अथासौ 'स्तेनोऽयं स्तेनोऽयम्' इति शब्दं जनमध्ये विस्तारयति तदा मूलम् । यच्च शेषद्रव्याणां शेषसाधूनां वा व्यवच्छेदं “पसज्जण" त्ति प्रसङ्गतः करोति तनिष्पन्नं प्रायश्चित्तम् ॥ ५०७० ॥ अथ सती ध्यामनां दर्शयति30 . सुव्वत्त झामिओवधि, पेसण गहिते य अंतरा लुद्धो । लहुगो अदेंते गुरुगा, अणवठ्ठप्पो व आदेसा ॥ ५०७१ ॥ १ एतदन्तर्गतः पाठः भा० कां• नास्ति ॥ २ विविधरूपै' कां० । "आयरितो केति दाणराड्डातिणा विरूवरूवेहिं नत्थेहिं निमंतितो” इति चूर्णो विशेपचूर्णौ च ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy