SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-भाग्य-वृत्ति के बृहत्कल्पसूत्रे [ अनव प्रकृते सूत्रम् ३ आशातनानवस्थाप्यः प्रतिसेव्यनवस्थाप्यश्चेत्यनवस्थाप्योऽपि द्विविधो भवति, न केवल पाराश्चिक इति अपिशव्दार्थः । पुनरेकैकोऽपि द्विविधः-सचारित्रोऽचारित्रश्चेति । एतौ द्वावपि भेदौ पाराञ्चिकवद् वक्तव्यौ ॥ ५०५९ ॥ अथाशातनानवस्थाप्यमाह तित्थयर पवयण सुते, आयरिए गणहरे महिड्डीए । एते आसादेंते, पच्छित्ते मग्गणा होइ॥५०६०॥ तीर्थकरः प्रवचनं श्रुतं आचार्यों गणधरो महर्द्धिश्चेति । एतानाशातयतः प्रायश्चित्ते मार्गणा भवति । अमीषां चाशातना पाराञ्चिकवद् भावनीया ( गा० ४९७६-८२) ॥ ५०६०॥ प्रायश्चित्तमार्गणा पुनरियम् पढम-बितिएसु णवम, सेसे एकेक चउगुरू होति । सव्वे आसादेंतो, अणवठ्ठप्पो उ सो होइ ॥ ५०६१ ॥ 'प्रथम-द्वितीययोः' तीर्थक्कर-सङ्घाशातनयोरुपाध्यायस्य 'नवमम्' अनवस्थाप्यं भवति । 'शेषेषु' श्रुतादिषु प्रत्येकमेकैकस्मिन् आशात्यमाने चतुर्मुखो भवन्ति । अथ 'सर्वाणि' चत्वायपि श्रुतादीनि आशातयति ततोऽसौ अनवस्थाप्यो भवति ॥ ५०६१ ।। उक्त आशातनानवस्थाप्यः । अथ प्रतिसेवनानवस्थाप्यमाह15 पडिसेवणअणवट्ठो, तिविधो सो होइ आणुपुव्वीए । साहम्मि अण्णधम्मिय, हत्थादालं व दलमाणे ॥ ५०६२॥ ___ यः प्रतिसेवनानवस्थाप्यः सूत्रे साक्षादुक्तः स आनुपूर्व्या त्रिविधो भवति-साधर्मिकस्तैन्यकारी अन्यधार्मिकस्तैन्यकारी हस्तातालं च ददत् ॥ ५०६२ ॥ तत्र साधर्मिकस्तैन्यं तावदाह साहम्मि तेण्ण उवधी, वावारण झामणा य पट्ठवणा । सेहे आहारविधी, जा जहिं आरोवणा भणिता ॥ ५०६३ ॥ साधर्मिकाणाम् 'उपधेः' वस्त्र-पात्रादिलक्षणस्य स्तैन्यं करोति । “वावारण" ति गुरुभिरुपधेरुत्पादनाय 'व्यापारणा' प्रेषणा कृता ततस्तमुत्पाद्य गुरूणामनिवेद्यापान्तराले खयमेवाधितिष्ठति । "झामणा य" ति उपकरणं सद्भावेनासद्भावेन वा 'ध्यामितं' दग्धं भवेत् तव्याजेन 25 श्रावकमभ्यर्थ्य वस्त्रादिकं गृहीत्वा स्वयमेव भुते । “पट्ठवण" ति केनाप्याचार्येण कस्यापि संयतस्य हस्ते अपराचार्यस्य ढौकनाय प्रतिग्रहः प्रेषितस्तमसावन्तरा खयमेव खीकरोति । "सेहे" ति शैक्षविषयं स्तैन्यं करोति । “आहारविहि" त्ति दानश्राद्धादिषु स्थापनाकुलेषु गुरुभिरननुज्ञातः 'आहारविधिम्' अशनादिकमाहारप्रकारं गृह्णाति । एतेषु स्थानेषु साधर्मिक. स्तैन्यं भवति । अत्र च या यत्र स्थाने 'आरोपणा' प्रायश्चित्तापरपर्याया भणिता सा तत्र 20 वक्तव्या । एष नियुक्तिगाथासङ्केपार्थः ॥ ५०६३ ॥ साम्प्रतमेनामेव विवरीषुराह उवाहिस्स आसिआवण, सेहमसेधे य दिदिढे य। सेहे मूलं भणितं, अणवठ्ठप्पो य पारंची ॥ ५०६४ ॥ १ थालंबं व मो० ॥ २ °समासार्थः कां० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy