SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५०५३-५९] चतुर्थ उद्देशः । १३४९ आशातनापाराञ्चिके षण्मासानां दशमे भागेऽष्टादश दिवसा वर्षस्य तु दशमे भागे षट्त्रिंशदिवसा भवन्ति । प्रतिसेवनापाराश्चिके संवत्सरस्य दशमे भागे पत्रिंशदिवसा द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भवन्ति । एतावन्तं कालं यद् वहेद् एषः 'द्वितीयः' देशदेश उच्यते ॥ ५०५६ ॥ उपसंहरन्नाह पारंचीणं दोण्ह वि, जहन्नमुक्कोसयस्स कालस्स । छब्भागं दसभागं, वहेज सव्यं व झोसिजा ॥ ५०५७॥ 'द्वयोरपि' आशातना-प्रतिसेवनापाराञ्चिकयोर्जघन्य उत्कृष्टश्च यः कालस्तस्य सम्बन्धिनं षड्भागं दशभागं वाऽनन्तरोक्तं वहेत् । यद्वा 'सर्वमपि' अवशिष्यमाणं सङ्घः क्षपयेत् , प्रसादेन मुञ्चेदिति भावः ॥ ५०५७ ॥ ॥ पाराश्चिकप्रकृतं समाप्तम् ॥ 15 अन व स्था प्य प्रकृ त म् सूत्रम्-- ततो अणवट्टप्पा पण्णत्ता, तं जहा-साहम्मियाणं तेपणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, . हत्थादालं दलेमाणे ३॥ अस्य सम्बन्धमाह पच्छित्तमणंतरियं, हेढा पारंचियस्स अणवठ्ठो । आयरियस्स विसोधी, भणिता इमगा उवज्झाते ॥ ५०५८॥ पूर्वसूत्रे पाराञ्चिकप्रायश्चित्तमुक्तम् , तस्य 'अधस्ताद' अनन्तरितमनवस्थाप्यप्रायश्चित्तं भवति, अतः साम्प्रतं तदभिधीयते । यद्वा पूर्वसूत्रे आचार्यस्य शोधिर्भणिता, इयं पुनरुपाध्या- 20 यविषया सैवाभिधीयते ॥ ५०५८ ॥ __ अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः 'अनवस्थाप्याः' तत्क्षणादेव व्रतेष्वनवस्थापनीयाः प्रज्ञप्ताः । तद्यथा-साधर्मिकाः-साधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा 'स्तैन्यं' चौर्य कुर्वाणः । अन्यधार्मिकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तैन्यं कुर्वन् । तथा हस्तेनाताडनं हस्तातालः, सूत्रे च तकारस्य दकारश्रुतिरार्षत्वात् , तं "दलमाणे" ददत् , 25 यष्टि-मुष्टि-लकुटादिभिरात्मनः परस्य वा प्रहरन्निति भावः । अथवा "हत्थालंबं" ति पाठः, हस्तालम्ब इव 'हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं "दलमाणे" कुर्वन् । यद्वा "अस्थादाणं दलमाणे" त्ति पाठः, तत्र 'अर्थादानम्' अर्थोपादानकारणमष्टाङ्गनिमित्तं 'ददत्' प्रयुञ्जानः । एष सूत्रसङ्केपार्थः ॥ अथ विस्तरार्थं बिभणिषुराह आसायण पडिसेवी, अणवटुप्पो वि होति दुविहो तु । एकेको वि य दुविहो, सचरित्तो चेव अचरित्तो ॥ ५०५९ ।। 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy