SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १३४८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्करूपसूत्रे [ पाराञ्चिकप्रकृते सूत्रम् २ येन कार्येणागतस्तस्य ' दीपना' प्रकाशना । ततो राजा " हासुस्सलिओ" चि हासेन युक्त उत्सृतः - हृष्टो हासोत्सृतः, हसितमुखः प्रहृष्टश्च सन्नित्यर्थः, भणति । यथा - मया 'विसर्जितं ' मुत्कलितं निर्विषयाज्ञापनादिकं कार्यमिति ।। ५०५२ ।। एवं च किं सञ्जातम् ? इत्याहसंघो न लभइ कजं, लद्धं करूं महाणुभाएणं । आह- का तुब्भं ति विसजेमिं, सो वि य संघो त्ति पूति ।। ५०५३ ॥ निर्विषयत्वाज्ञापनमुत्कलनादिलक्षणं कार्यं सङ्घो न लभते किन्तु तेन पाराञ्चिकेन 'महानुभागेन' • सौतिशयाचिन्त्यप्रभावेन - लब्धम् । न च स एवं कार्यलाभेन गर्वमुद्वहति, यत इ - " तुब्भं ति" इत्यादि, राजा प्राह - युष्माकं भणितेनाहं पूर्वग्राहं त्यक्त्वा तत् विसर्जयामि नान्यथा । ‘सोऽपि च ' पाराञ्चिको ब्रूते - कोऽहम् ? कियन्मात्रो वा ? गरीयान् 10. सङ्घो भट्टारकः, तत्प्रभावादेवाहं किञ्चिज्जानामि, तस्मात् सङ्घमाहूय क्षमयित्वा यूयमेवं ब्रूतमुत्कलितं मया युष्माकमिति । ततो राजाऽपि सङ्घ पूजयति ॥ ५०५३ ॥ अभत्थितो व रण्णा, सयं व संघो विसञ्जति तु तुड्डो । 5 आदी मझवसाणे, स यावि दोसो धुओ होइ ।। ५०५४ ॥ " - राजा सङ्घ ब्रूयात् — मया युष्माकं विसर्जितं कार्यम् परं मदीयमपि कार्यमिदानीं 1: कुरुत —— मुञ्चतास्य पाराञ्चिकस्य प्रायश्चित्तम् । एवं राज्ञाऽभ्यर्थितो यदि वा खयमपि तुष्टः सङ्घः 'विसर्जयति' मुत्कलयति । किमुक्तं भवति ? - यद् व्यूढं तद् व्यूढमेव, शेषं तु पुनर्देशतः सर्वतो वा प्रसादेन मुञ्चति । तस्य च पाराञ्चिकतपसस्तदानीमादिर्मध्यमवसानं वा भवेत्, त्रिष्वपि सङ्घस्यादेशात् ' स चापि' पाराञ्चिकापत्तिहेतुर्दोषः 'धुतः ' कम्पितः प्रसादेन स्फेटितो भवतीत्यर्थः । तत्र देशो देशदेशो वा प्रायश्चित्तस्य तेन वोढव्यः । अथ राजा तस्यापि मोचने 20 निर्बन्धं करोति तदा तदपि मुच्यते । देशो नाम - षड्भागः, देशदेशः - दशभागः ॥ ५०५४ ॥ तत्र देशे यावन्तो मासा भवन्ति तदेतत् प्रतिपादयति एक दोन दोन्निय, मासा चउवीस होंति छन्भागे । दे दोह वि एयं, वहेज मुंचेज वा सव्वं ।। ५०५५ ॥ इहाशातनापाराञ्चिको जघन्यतः षण्मासान् उत्कर्षतो वर्षं भवति इत्युक्तम्, तत्र षण्मा - 25 सानां षष्ठे भागे एको मासो लभ्यते वर्षस्य तु षड्भागे द्वौ मासौ भवतः । प्रतिसेवनापारा - चिको जघन्यतो वर्षम् उत्कर्षतो द्वादश वर्षाणि भवतीत्युक्तम्, तत्रापि वर्षस्य षड्भागे द्वौ मासौ द्वादशवर्षाणां पष्ठे भागे चतुर्विंशतिर्मासा भवन्ति । एवंविधं देशं 'द्वयोरपि' आशातना-प्रतिसेवनापाराश्चिकयोः सम्बन्धिनं सङ्घस्यादेशाद् वहेत्, यद्वा सर्वमपि सङ्घो मुञ्चेत्, न किमपि कारयेदित्यर्थः ॥ ५०५५ || अथ देशदेशमाह 30 अट्ठारस छत्तीसा, दिवसा छत्तीसमेव वरिसं च । बावतारं च दिवसा, दसभाग वहेज वितिओ तु ॥ ५०५६ ।। १ कारणेनाग' कां० ॥ २ 'भावेणं ताभा ॥ ३ ४ माकं तत् कार्यमिति कां० ॥ Jain Education International एतन्मध्यगतः पाठः भा० कां० नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy