________________
१३४६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पाराञ्चिकप्रकृते सूत्रम् २
यतनं किमपि तेनावष्टब्धं स्यात् ततस्तन्मोचने क्रुद्धो भवेत् । अथवा तद्द्रव्यस्य - चैत्यद्रव्यस्य संयत्या वा ग्रहणं राज्ञा कृतं तन्मोचने वा कुपितः । ततः 'पूर्वोक्तानाम् ' इहैव प्रथमोद्देशके प्रतिपादितानां ( ( गा० ) निर्विषयत्वा ज्ञापन - भक्तपान निषेधोपकरणहरण- जीवितचारित्रभेदलक्षणानां चतुर्णां कार्याणामन्यतरत् कार्यमुत्पन्नं भवेत् ततो न गच्छेत् ॥ ५०४२ ॥ 5 अगमने चोपाध्यायः प्रेषणीयोऽन्यो वा, तथा चाह
पेसे उवज्झायं, अन्नं गीतं व जो तहिं जोग्गो ।
पुट्ठो व अपुट्ठो वा स चावि दीवेति तं कजं ॥। ५०४३ ॥
पूर्वोक्तकारणवशतः स्वयमाचार्यस्य गमनाभावे उपाध्यायं तदभावेऽन्यो वा यो गीतार्थस्तत्र योग्यस्तं प्रेषयति । स चापि तत्र गतः सन् तेन पाराञ्चितेन 'किमित्यद्य क्षमाश्रमणा 10 नायाताः ?' इति पृष्टो वाऽपृष्टो वा तत् 'कार्य' कारणं दीपयेत्, यथा - अमुकेन कारणेन नायाता इति ॥ ५०४३ ॥
जाणता माहष्पं, सयमेव भणति एत्थ तं जोग्गो ।
अथ मम एत्थ विसओ, अजाणए सो व ते वेति ।। ५०४४ ॥
इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानागमनं पृष्टेनापृष्टेन वा दीपितं तदा न 15 किमप्यन्यत् तेन पाराञ्चितेन वक्तव्यं किन्तु गुर्वादेश एवोभाभ्यां यथोदितः सम्पादनीयः । अथ राजप्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि 'ते' उपाध्याया अन्ये वा गीतार्थास्तस्य शक्तिं स्वयमेव बुध्यन्ते ततो जानन्तः खयमेव तस्य माहात्म्यं तं ब्रुवते, यथा-अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः । अथ न जानते तस्य शक्ति ततः स एव तानजानानान् ब्रूते, यथा— अस्ति ममात्र विषय इति ॥ ५०४ ॥
एतच्च खयमुपाध्यायादिभिर्वा भणितो वक्ति
20
अच्छउ महाणुभाँगो, जहासुहं गुणसयागरो संघो ।
गुरुगं पि इमं कीं, मं पप्प भविस्सए लहुयं ।। ५०४५ ॥
तिष्ठतु यथासुखं महान् अनुभाग:- अधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य सः, तथा गुणशतानाम् - अनेकेषां गुणानाम् आकरः - निधानं गुणशताकरः सङ्घः । यत इदं गुरुक25 मपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयाऽपि साधने इति भावः ॥ ५०४५ ॥ एवमुक्ते सोऽनुज्ञातः सन् यत् करोति तदाह---
अभिहाण - हे उकुसलो, बहूसु नीराजितो विउसभासु ।
गंतूण रायभवणे, भणाति तं रायदारटुं ।। ५०४६ ॥
'अभिधान-हेतुकुशलः' शब्दमार्गे तर्कमार्गे चाऽतीव क्षुण्ण इत्यर्थः, अत एव बहुषु विद्वॐ त्सभासु ‘नीराजितः' निर्वटितः, इत्थम्भूतः स पाराञ्चिको राजभवने गत्वा तं ' राजद्वारस्थं ' प्रतीहारं भणति ।। ५०४६ ॥ किं भणति ? इत्याह
पडिहाररूवी ! भण रायरूविं, तमिच्छए संजयरूवि दहुँ ।
१ 'पनादीनां चतुर्णा भा० कां० ॥ २ कार्येण ना° कां० ॥ ३ 'भावो, जताभा• ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org