SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५०३४-४२ ] चतुर्थ उद्देशः । १३४५ करोति । अथ जातः 'अग्लानः ' नीरोगस्तत आचार्य न किमपि कारयति किन्तु सर्वं स्वयमेव कुरुते ॥ ५०३८ ॥ अधुना यदुक्तम् “ओलोयणं गवेसण" ( गा० ५०३६ ) ति तयाख्यानार्थमाह 5. उभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणि । आसासइत्ताण तोकिलंतं, तमेव खेत्तं समुर्वेति धेरा ।। ५०३९ ।। 'स्थविरा:' आचार्याः शिष्याणां प्रतीच्छकानां च 'उभयमपि' सूत्रमर्थं च, किंविशिष्टम् ? इत्याह- 'सप्रति पृच्छं' पृच्छा - प्रश्नस्तस्याः प्रतिवचनं प्रतिपृच्छा तया सहितं सप्रतिपृच्छम्, सूत्रविषयेऽर्थविषये च यद् येन पृष्टं तत्प्रतिवचनं दत्त्वा तत्सकाशमुपगम्य तदीयशरीरस्ये "वट्टमार्णि" ति वर्त्तमाने काले भवा वार्त्तमानी - वार्चेत्यर्थस्तां वहन्ति, अल्पक्लाम्यतां पृच्छन्तीति भावः । सोऽपि चाऽऽचार्यमागतं ' मस्तकेन वन्दे' इति फेटावन्दनकेन वन्दते । शरी- 10 रस्य चोदन्तमूवा यदि तपसा क्लाम्यति तत आश्वासयन्ति । आश्वास्य च ' तदेव क्षेत्रं' यत्र गच्छोऽवतिष्ठते तत् समुपगच्छन्ति स्थविराः ॥ ५०३९ ॥ 3 अथ द्वावपि सूत्रार्थी दत्त्वा तत्र गन्तुं न शक्नोति ततः को विधि: ? इत्याहअसहू सुत्तं दातुं दो वि अदाउं व गच्छति पए वि । संघाओ से भत्तं, पाणं चाऽऽणेति मग्गेणं ।। ५०४० ।। इहैकस्यापि कदाचिदेकवचनं कदाचिच्च बहुवचनं सर्वस्यापि वस्तुन एका ऽनेकरूपताख्यापनार्थमित्यदुष्टम् । असहिष्णुराचार्यः सूत्रं दत्त्वा गच्छति । अथ तथापि न शक्नोति ततः 'द्वावपि ' सूत्रा - ऽर्थावदत्त्वा 'प्रगे' प्रभात एव गच्छति । तस्य च तत्र गतस्य एकः सङ्घाटको भक्तं पानकं च 'मार्गेण पृष्ठत आनयति ॥ ५०४० ॥ कदाचिन्न गच्छेदपि तत्रैतानि कारणानि - गेलोण व पुट्ठो, अभिणवमुक्का ततो व रोगातो । कालम्मि दुब्बले वा, कजे अण्णे व वाघातो ।। ५०४१ ॥ स आचार्यो ग्लानत्वेन वा स्पृष्टो भवेद् अथवा 'तस्माद्' ग्लानत्वकारणाद् रोगाद् 'अभिनवमुक्तः' तत्कालमुक्तः स्यात् ततो न गच्छेत् । यदि वा काले 'दुर्बले' न विद्यते बलं गमनाय यस्मिन् गाढातपसम्भवादिना स दुर्बल: - ज्येष्ठा -ऽऽषाढादिकः कालः, दुरशब्दोऽभाववाची, 23 तस्मिन् न गच्छेत्, शरीरक्लेशसम्भवात् । " कज्जे अण्णे व वाघातो" इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, ततोऽयमर्थः - अन्येन वा कार्येण केनापि व्याघातो भवेत् ।। ५०४१ ॥ किं पुनस्तत्कार्यम् ? इत्याह १ स्य 'वर्त्तमानम्' उदन्तं वह भा० कां० ॥ ३ अत्रान्तरे कां० पुस्तके ग्रन्थाग्रम् - १००० इति वर्त्तते ॥ वायपरायण कुवितो, चेइय- तद्दव्व-संजतीगहणे | 39 पुव्वत्ताण चउण्ह वि, कञ्जाण हवेज अन्नयरं । ५०४२ ॥ वादे कस्यापि राजवल्लभवादिनः पराजयेन नृपतिः कुपितः स्यात् । अथवा चैत्यं - जिना - Jain Education International 15 २ तं पृवा यदि ताटी० भा०विना || 20 For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy