________________
5 स्वगच्छ एव पाराञ्चिकप्रतिपत्तौ अगीतार्थानामप्रत्ययो भवति — नूनमकृत्यमनेन प्रति सेवितं येन पाराश्चिकः कृतः । ततस्तेषां निर्भयता भवति, न गुरूणां विभ्यतीत्यर्थः । अबिभ्यतश्चाज्ञाभङ्गं कुर्वीरन् । अयन्त्रणा च खगणे भवति, शिष्यानुरोधादिना खयमेव भक्त - पानानयनादौ नियत्रणा वक्ष्यमाणा न भवतीत्यर्थः । परगणे चैते दोषा न भवन्ति । अपि च तत्र गच्छता भगवतामाज्ञानुपालने 'स्थिरता' स्थैर्यं कृतं भवति, भयं चात्मनः सञ्जायते, ततः 10 परगणं गत्वा तत्र पाराञ्चिकं पतिपद्य निरपेक्षः सक्रोशयोजनात् क्षेत्राद् बहिर्व्रजति ॥५०३४ ॥ तस्य चेयं सामाचारी -
१३४४
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ पाराञ्चिकप्रकृते सूत्रम् २
चनां परगणाचार्यस्य प्रयच्छति । उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्ग प्रकुरुतः ||५०३३ || अथ किं कारणं स्वगणे न प्रतिपद्यते : उच्यते
जिणकप्पियपडिरूवी, बाहिं खेत्तस्स सो ठितो संतो ।
विहरति बारस वासे, एगागी झाणसंजुत्तो ॥ ५०३५ ॥
'जिनकल्पिकप्रतिरूपी' 'अलेपकृतं भैक्षं ग्रहीतव्यम्, तृतीयस्यां पौरुष्यां पर्यटनीयम्' 15 इत्यादिका यादृशी जिनकल्पिकस्य चर्या तां कुर्वन् क्षेत्राद् बहिः स्थितः सन् 'सः' पाराश्चिकः एकाकी 'ध्यानसंयुक्तः' श्रुतपरावर्तनैकचितो द्वादश वर्षाणि विहरति ॥ ५०३५ ॥ यस्य चाssचार्यस्य सकाशे प्रतिपद्यते तेन यत् कर्तव्यं तदाह
20
25
अप्पचय णिभयया, आणाभंगो अजंतणा सगणे । परगणें न होंति एए, आणाथिरता भयं चेव ॥ ५०३४ ॥
ओलोयणं गवेसण, आयरितो कुणति सव्वकालं पि । उप कारणम्मि, सव्वपयत्तेण कायन्त्रं ॥ ५०३६ ॥
आचार्यः पाञ्चिकस्य 'सर्वकालमपि' यावन्तं कालं प्रायश्चित्तं वहति तावन्तं सकलमपि काल यावत् प्रतिदिवसमवलोकनं करोति, तत्समीपं गत्वा तद्दर्शनं करोतीत्यर्थः । तदनन्तरं ' गवेषणं ' 'गतोऽल्पक्लमतया भवतां दिवसो रात्रिर्वा ?' इति पृच्छां करोति । उत्पन्ने पुनः ' कारणे' ग्लानत्वलक्षणे सर्वप्रयत्नेन भक्त - पानाहरणादिकं स्वयमाचार्येण तस्य कर्तव्यम् ॥ ५०३६ ॥ जो उ उवेह कुजा, आयरिओ केणई पमाणं ।
आरोवणा उ तस्सा, कायव्वा पुव्वनिदिट्ठा ॥ ५०३७ ॥
यः पुनराचार्यः ‘केनापि प्रमादेन' जनव्याक्षेपांदिना 'उपेक्षां कुरुते' तत्समीपं गत्वा तच्छरीरस्योदन्तं न वहति तस्याऽऽरोपणा ' पूर्वनिर्दिष्टा' ग्लानद्वाराभिहिता कर्तव्या, चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः ॥ ५०३७ ॥
30
यदुक्तम् “उत्पन्ने कारणे सर्वप्रयलेन कर्तव्यम् ” ( गा० ५०३६ ) तद् भावयति - आहरति भत्त-पाणं, उव्वत्तणमाइयं पि से कुणति ।
सयमेव गणाहिवई, अह अगिलाणो सयं कुणति ॥ ५०३८ ॥
अथ स पाञ्चिको ग्लानोऽभवत् ततस्तस्य ' गणाधिपतिः' आचार्यः स्वयमेव भक्तं पानं च 'आहरति' आनयति, उद्वर्तनम् आदिशब्दात् परावर्तनोर्द्ध करणोपवेशनादिकं तस्य स्वयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org