SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५०२४-३३ ] चतुर्थ उद्देशः । स्तदा स तपः पाञ्चिकः क्रियते, यदि च "से" तस्येमे गुणा भवन्ति ॥ ५०२८ ॥ के पुनस्ते ? इत्याह संघयण - विरिय आगम- सुत्त-त्थ-विहीए जो समग्गो तु । तवसी निरगहत्तो, पवयणसारे अभिगतत्थो । ५०२९ ।। संहननं - वज्रऋषभनाराचम्, वीर्यं धृत्या वज्रकुड्यसमानता, आगमः - जघन्येन नवम - 5 पूर्वान्तर्गतमाचाराख्यं तृतीयं वस्तु उत्कर्षतो दशमपूर्वमसम्पूर्णम्, तच्च सूत्रतोऽर्थतश्च यदि परिजितं भवति, एतैः संहननादिभिर्विधिना च - तदुचितसमाचारेण यः 'समग्रः' सम्पूर्णः । 'तपस्वी नाम' सिंहनिक्रीडिता दितपः कर्मभावितः । ' निग्रहयुक्तः' इन्द्रिय- कषायाणां निग्रहसमर्थः । 'प्रवचनसारेऽभिगतार्थः ' परिणामितप्रवचन रहस्यार्थ इति ॥ ५०२९ ॥ किश्च – तिलतुसतिभागमित्तो, वि जस्स असुभो ण विजती भावो । निजहणा अरिहो, सेसे निजहणा नत्थि ।। ५०३० ॥ यस्य गच्छान्निर्यूढस्य तिलतुषत्रिभागमात्रोऽपि 'निर्यूढोऽहम्' इत्यशुभो भावो न विद्यते स निर्यूहणायाः 'अर्हः' योग्य: । ' शेषस्य ' एतद्गुणविकलस्य निर्यूहणा नास्ति, न कर्तव्ये - त्यर्थः ॥ ५०३० ॥ इदमेव व्याचष्टे - - एयगुणसंपजुत्तो, पावति पारंचियारिहं ठाणं । एयगुणविमुक्के, तारिसगम्मी भवे मूलं ॥ ५०३१ ॥ एतैः - संहननादिभिर्गुणैः सम्प्रयुक्तः पाराञ्चिकार्हं स्थानं प्रामोति । यः पुनरेतद्गुणविप्रमुक्तः 'तादृशे' पाराश्चिकापत्तिप्राप्तेऽपि मूलमेव प्रायश्चित्तं भवति ॥ ५०३१ ॥ अथ पाञ्चिकमेव कालतो निरूपयति आसाणा जहणणे, छम्मासुकोस बारस तु मासे । वासं बारस वासे, पडिसेवओं कारणे भतिओ ।। ५०३२ ।। Jain Education International -१३४३ 10 For Private & Personal Use Only 15 आशातनापाराञ्चिको जघन्येन षण्मासान् उत्कर्षतश्च द्वादश मासान् भवति एतावन्तं कालं गच्छान्निर्यूढस्तिष्ठतीत्यर्थः । प्रतिसेवनापाराञ्चिको जघन्येन संवत्सरम् उत्कर्षतो द्वादश वर्षाणि निर्यूढ आस्ते । “पडिसेबओ कारणे भइओ" त्ति यः प्रतिषेव कपाराच्चिकैः सः ' कारणे' कुलगणादिकार्ये ‘भक्तः’ विकल्पितः, यथोक्तकालादर्वागपि गच्छं प्रविशतीति भावः ॥ ५०३२ ।। 25 अथ तस्यैव गणनिर्गमन विधिमाह 20 इत्तिरियं णिक्खेवं, काउं अण्णं गणं गमिताणं । दव्वादि सुभे विगडण, निरुवस्सग्गड उस्सग्गो ।। ५०३३ ।। इह यः पाचिकं प्रतिपद्यते स नियमादाचार्य एव भवति, तेन च खगणे पाराश्चिकं न प्रतिपत्तव्यम्, अन्यस्मिन् गणे गन्तव्यम् । तत इत्वरं गणनिक्षेपमात्मतुल्ये शिष्ये कृत्वा 30 ततोऽन्यं गणं गत्वा 'द्रव्यादिषु' द्रव्य-क्षेत्र - काल - भावेषु 'शुभेषु' प्रशस्तेषु 'विकटनाम्' आलो१. कः तथाविधापराधसेवनया पाराञ्चिकप्रायश्चित्तप्राप्तः सः 'कारणे कुल-गण-सङ्घादिकार्ये कां० ॥ www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy