________________
10
15
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पाराञ्चिकप्रकृते सूत्रम् २
देसवत दंसणं वा, गिव्ह अणिच्छे पलायंति ॥ ५०२४ ॥ 'अपिः' सम्भावने, स चैतत् सम्भावयति - यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथापि "से" 'तस्य' स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति । यः पुनरतिशयज्ञानी स जानाति - -न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति; ततो लिङ्गं ददाति, इतरथा न ददाति । लिङ्गापहारे पुनः क्रियमाणेऽयमुपदेशो दीयते – 'देशत्रतानि' स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थः ततः 'दर्शनं' सम्यत्तत्वं गृहाग । अथैवमप्यनुनीयमानो लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा 'पलायन्ते' देशान्तरं गच्छन्ति ॥ ५०२४ ॥ गतः प्रमत्तपाराञ्चिकः । अथान्योन्यं कुर्वाणं तमेवाह
30
१३४२
आसग-पोसग सेवी, केई पुरिसा दुवेयगा होंति ।
तेसिं लिंगविवेगो, बितियपदं रायपव्वइते ।। ५०२६ ॥
आस्यं–मुखं आस्यमेवास्यकम्, पोसकः - पायुः, आस्यक - पोसकाभ्यां सेवितुं शीलमेषामित्यासक-पोसकसेविनः; केचित् 'पुरुषाः' साधवः 'द्विवेदकाः ' स्त्री-पुरुषवेदयुक्ता भवन्ति, नपुंसकवे दिन इत्यर्थः; तेषां लिङ्गविवेकः कर्तव्यः, लिपाराचिकं दातव्यमित्यर्थः । द्वितीयपदमत्र भवति —– यो राजपत्रजितस्तस्यास्यक - पोसकसेविनोऽपि लिङ्गं नापह्रियते, परं 20 यतनया स परित्यज्यते ॥ ५०२६ ॥ गतोऽन्योन्यं कुर्वाणः पाञ्चिकः । सम्प्रति यो दुष्टादिर्यतः पाराञ्चिकः क्रियते तदेतद् दर्शयति-
बिइओ उवस्सयाई, कीरति पारंचितो न लिंगातो ।
अणुवरमं पुणकीरति, सेसा नियमा तु लिंगाओ ।। ५०२७ ॥
'द्वितीयः' विषयदुष्ट उपाश्रयादेंः पाञ्चिकः क्रियते, क्षेत्रत इत्यर्थः, 'न लिङ्गाद्' लिङ्गपारा25 ञ्चिको न विधीयते । अथ ततो दोषान्नोपरमते तदाऽनुपरमन् लिङ्गतोऽपि पाराञ्चिकः क्रियते । 'शेषाः ' कषायदुष्ट - प्रमत्ता - ऽन्योन्य सेवाकारिणो नियमाद् लिङ्गपाराञ्चिकाः क्रियन्ते ॥ ५०२७ ॥ किमेत एव पाराञ्चिकाः ? उताऽन्योऽप्यस्ति ? अस्तीति ब्रूमः । कीदृशः सः ? इति चेद् उच्यते
करणं तु अण्णमण्णे, समणाण न कप्पते सुविहिताणं ।
जे पुर्ण करेंति णाता, तेसिं तु विर्विचणा भणिया ।। ५०२५ ।। तुशब्दस्य व्यवहितसम्बन्धतया 'अन्योन्यं' परस्परं पुनर्यत् 'करणं' मुख- पायुप्रयोगेण सेवनं तत् श्रमणानां सुविहितानां कर्तुं न कल्पते । ये पुनः कुर्वन्ति ते यदि ज्ञातास्तदा तेषां 'विवेचना' परिष्ठापना भणिता ॥ ५०२५ ॥ इदमेव व्याचष्टे -
इंदिय- पमाददोसा, जो पुण अवराहमुत्तमं पत्तो ।
सब्भावसमाउट्टो, जति य गुणा से इमे होंति ।। ५०२८ ।।
इन्द्रियैदोषात् प्रमाददोषाद्वा पाराञ्चिकापत्तियोग्याद् यः पुनः साधुः 'उत्तमम्' उत्कृष्टमपरापदं प्राप्तः स यदि 'सद्भावसमावृत्तः ' 'निश्चयेन भूयोऽहमेवं न करिष्यामि' इति व्यवसितएतदन्तर्गतः पाठः कां० एव वर्तते ॥ २°य-प्रमाददोषाद् यः पु' भा० कां० ॥
१
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org