________________
भाष्यगाथाः ५०१८ - २३ ]
चतुर्थ उद्देशः ।
१३४१
"
अपरः कोऽपि साधुर्गृहस्थभावे ' मत्तहस्तिना' शुण्डामुत्क्षिप्य धावता धाटितः पलायमानो महता कष्टेन छुट्टितः । एष चूर्ण्यभिप्रायः । निशीथचूर्णिकृता तु – “एगो साहू गोयरनिभ्गतो हत्थिणा पक्खित्तो" इति लिखितम् । एवमुभयथाऽपि तं हस्तिकृतं पराभवं स्मृत्वा स साधुः तस्योपरि प्रद्वेषमापन्नः प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय पुरकपाट भक्तवा हस्तिशालां गत्वा तस्य हस्तिनो व्यापादनं कृत्वा दन्तानुत्खन्य वसतेर्बहिः स्थापयित्वा भूयोऽपि प्रसुप्तः । प्रभाते च ' विकटना' स्वप्नमालोचयति । साधुभिश्च दिगवलोकनं कुर्वाणैर्गजदन्तौ वीक्षितौ । ततः ‘स्त्यानर्द्धिमान् असौ' इति ज्ञात्वा लिङ्गपाराञ्चिकः कृतः || ५०२१ ॥ वटशाला भञ्जनदृष्टान्तमाह
----
उन्भाग वडसाले घट्टितो के पुत्र वणहत्थी ।
वडसालभंजणाऽऽणण, उस्सग्गाऽऽलोयणा गोसे ।। ५०२२ ॥
एकः साधुः ‘उद्भामकः' भिक्षाचर्यां गतः । तत्र ग्रामद्वयस्यापान्तराले वटवृक्षो महान् विद्यते । स च साधुर्गाढतरमुष्णाभिहतो भरितभाजनस्तृषित- बुभुक्षित ईर्योपयुक्तो वेगेनाssगच्छन् ~< “बैंडसालेण” त्ति लिङ्गव्यत्ययाद् - वटपादपस्य शालया शिरसि घट्टितः सुष्ठुतरं परितापितः । ततो वटस्योपरि प्रद्वेषमुपगतः तदध्यवसायपरिणतश्च प्रसुप्तः । उदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटपादपं भक्त्वा उन्मूल्य तदीयां शालामानीयोपाश्रयोपरि स्थापितवान् । 15 'उत्सर्गे च' आवश्यक कायोत्सर्गत्रिके कृते 'गोसे च' प्रभाते तथैव गुरूणामालोचयति । ततो दिगवलोके कृते तथैव ज्ञातम्, लिङ्गपाराञ्चिकः कृतश्च ।
केचिदाचार्या ब्रुवते - स पूर्वभवे वनहस्ती बभूव, ततो मनुजभवमागतस्य प्रव्रजितस्योदीर्णस्त्यानर्द्धेः पूर्वंभवाभ्यासाद् वटशालाभञ्जनमभवत् । शेषं प्राग्वत् ॥ ५०२२ ॥
कथं पुनरसौ परित्यजनीयः ? इत्याह
१ " एगो गित्ते हत्थिणा परिधाडितो । सो तं इत्थिस्स वेरं संभरति । पासुंत्तेसु रतिं गंतुं पुरकवाडे भंजिउं हत्थि मारेत्ता दंते उक्खणित्ता पंडिस्सयस्स वाहिँ ठवेति ।" इति चूर्णिपाठः ॥
२-३
एतदन्तर्गतः पाठः भ० कां
॥
For Private & Personal Use Only
Jain Education International
10
केस अवलं पण्णवेति मुय लिंग णत्थि तुह चरणं ।
च्छस्स हरइ संघो, ण वि एको मा पदोसं तु ॥ ५०२३ ॥ केशवः - वासुदेवस्तस्य बलादर्घबलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति । एतच्च प्रथमसंहननिनमङ्गीकृत्योक्तम्, इदानीं पुनः सामान्यलोकबलाद् द्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः - सौम्य ! मुञ्च लिङ्गम्, नास्ति 25 तव 'चरणं' चारित्रम् | यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनम् । अथ न मुञ्चति ततः सङ्घः समुदितो लिङ्गं तस्य मोक्तुमनिच्छतः सकाशाद् 'हरति' उद्दालयति, न पुनरेकः । कुतः ? इत्याह- -मा तस्यैकस्योपरि प्रद्वेषं गच्छेत्, प्रद्विष्टश्च व्यापादनमपि कुर्यात् ॥ ५०२३ ॥ लिङ्गापहारनियमार्थमिदमाह -
अवि केवलमुपाडे, न य लिंगं देति अणतिसेसी से ।
20
30
www.jainelibrary.org