________________
भाष्यगाथाः ५००९-१७] चतुर्थ उद्देशः ।
१३३९ __ 'येषु' ग्रामादिषु 'ताः' संयत्यो विहरन्ति तेषु तेषु स्थानेषु स विहरन् वार्यते, ततः पाराश्चिकः क्रियत इत्यर्थः । एवं 'प्रथमभङ्गे' व 'स्वपक्षः खपक्षे दुष्टः' इतिलक्षणे » विधिरुक्तः । 'शेषेष्वपि' द्वितीयादिषु भङ्गेषु तानि स्थानानि वर्जनीयानि । किमुक्तं भवति ?द्वितीयभङ्गे यस्यामगार्यामध्युपपन्नस्तदीये कुल-निवेशनादौ प्रविशन् वारणीयः, तृतीय-चतुर्थभङ्गयोः स 'पैरपक्षः स्वपक्षे परपक्षे वा दुष्टः' इतिलक्षणयोः » उपशान्तस्यापि तेषु स्थानेषु । लिझं न दातव्यम् ॥ ५०१४ ॥ .
एत्थं पुण अहिगारो, पढमगभंगेण दुविह दुद्वे वी । [सू.नि.१५७]
उच्चारियस रिसाई, सेसाइँ विकोवणहाए ।। ५०१५ ।। अत्र पुनः 'द्विविधेऽपि' कपायतो विषयतश्च दुष्टे प्रथमभङ्गेनाधिकारः । 'शेषाणि पुनः' द्वितीयभङ्गादीनि पदानि उच्चारितसदृशानि विनेयमतिविकोपनार्थमभिहितानि ॥ ५०१५ ।। 10 गतो दुष्टः पाराञ्चिकः । सम्प्रति प्रमत्तपाराश्चिकमाह---
कसाए विकहा विगडे, इंदिय निदा पमाद पंचविधो ।
अहिगारो सुत्तम्मि, तहिगं च इमे उदाहरणा ॥ ५०१६ ॥ 'कषायाः' क्रोधादयः, 'विकथा' स्त्रीकथादिका, 'विकटं' मद्यम् , 'इन्द्रियाणि' श्रोत्रादीनि, 'निद्रा' वक्ष्यमाणा, एष पञ्चविधः प्रमादो भवति । अयं च निशीथपीठिकायां 15 यथा सविस्तरं सप्रायश्चित्तोऽपि भावितस्तथैवात्रापि मन्तव्यः । नवरमिह वपनं सुप्तं-निद्रा इत्यर्थः, तयाऽधिकारः । सा च पञ्चविधा-निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलामचला ४ स्त्यानर्द्धिश्चेति ५। तत्र
सुहपडिबोहो निद्दा, दुहपडिनोहो य निद्दनिद्दा य ।
पयला होइ ठियस्सा, पयलापयला उ चंकमतो ॥ .. स्त्यानर्द्धिस्तु-स्त्याना-प्रबलदर्शनावरणीयकर्मोदयात् कठिनीभूता ऋद्धिः-चैतन्यशक्तियस्यामवस्थायां सा स्त्यानर्द्धिः, यथा घृते उदके वा स्त्याने न किश्चिदुपलभ्यते एवं चैतन्यऋध्यामपि स्त्यानायां न किञ्चिदुपलभ्यत इति भावः । अत्र पाराश्चिकस्य प्रस्तुतत्वात् स्त्यानर्द्धिनिद्रयाऽधिकारः । तस्यां चामून्युदाहरणानि ॥ ५०१६॥
पोग्गले मोयग फरुसग, दंते वडसालभंजणे सुत्ते ।
। एतेहिं पुणो तस्सा, विविंचणा होति जतणाए ॥ ५०१७ ॥ 'पुद्गलं' पिशितम् , 'मोदकः' लड्डकः, 'फरुसकः' कुम्भकारः, 'दन्ताः' प्रतीताः, वटशालाभञ्जनम् । एतानि पञ्चोदाहरणानि 'सुप्ते' स्त्यानर्द्धिनिद्रायां भवन्ति । एतैः' एतदृष्टान्तोक्तैश्चितैः स्त्यानर्द्धि परिज्ञाय 'तस्य' स्त्यानर्द्धिमतः साधोर्यतनया 'विवेचनं' परित्यागः कर्तव्यो भवति ॥ ५०१७ ॥ तत्र पुद्गलदृष्टान्तमाह--
30 १-२ • एतदन्तर्गतः पाठः भा० का० नास्ति ॥ ३ 'प्रथमभङ्गेन' पाराञ्चिकप्रायश्चित्तविषयभूतेनाधि' कां० ॥ ४ 'मतो ॥ इत्याद्यनिद्राचतुष्टयलक्षणम् । पञ्चमी भाव्यतेस्त्यानर्द्धिः-स्त्याना- कां० ॥ ५°ल लड्डग फरु° ताभा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org