________________
भाष्यगाथाः ४९९८-५००८] चतुर्थ उद्देशः ।
१३३७ 'प्रत्येकं' पृथक् पृथग् मात्रकेषु गृहीतं तत् तेषामुद्वरितं मण्डल्यां प्रक्षिप्यते, परमवभाषितलाभं मुक्त्वा, स ने प्रक्षिप्यत इति भावः ॥ ५००३ ॥
पाहुणगट्ठा व तगं, धरेत्तुमतिबाहडा विगिंचंति ।
ईंह गहण-भुंजणविही, अविधीऍ इमे भवे दोसा ॥ ५००४॥ प्राघुणकार्थ वा 'तकं' ग्लानार्थमानीतं प्रायोग्यं 'धृत्वा' स्थापयित्वा यदि 'अतिबाहडाः' 5 अतीवधाताः प्राधुणकाश्च नायाताः तदा 'विवेचयन्ति' परित्यजन्ति । एवमिह ग्रहण-भोजनविधिर्भवति । यद्येनं विधिं न कुर्वन्ति ततस्तस्मिन् अविधौ इमे दोषा भवेयुः ।। ५००४ ॥
तिव्वकसायपरिणतो, तिव्वतरागाइँ पावइ भयाइं ।
मयगस्स दंतमंजण, सममरणं ढोकणुग्गिरणा ॥ ५००५॥ व्याख्यातार्था (गा० ४९९३) ॥५००५॥ उक्तः कषायदुष्टः । अथ विषयदुष्टमाह-10
संजति कप्पट्ठीए, सिजायरि अण्णउत्थिणीए य ।
एसो उ विसयदुट्ठो, सपक्ख परपक्व चउभंगो ॥ ५००६ ॥ इहापि स्वपक्ष-परपक्षपदाभ्यां चतुर्भङ्गी, तद्यथा-स्वपक्षः स्वपक्षे दुष्टः १ खपक्षः परपक्षे दुष्टः २ परपक्षः खपक्षे दुष्टः ३ परपक्षः परपक्षे दुष्टः ४ । तत्र 'कल्पस्थिकायां' तरुण्यां संयत्यां 'संयतः' अध्युपपन्न इति प्रथमो भङ्गः । संयत एव शय्यातरभ्रूणिकायामन्यतीर्थिक्यां 15 वाऽध्युपपन्न इति द्वितीयः । गृहस्थः संयतीकल्पस्थिकायामध्युपपन्न इति तृतीयः । गृहस्थो गृहस्थायामिति चतुर्थः । एष विषयदुष्टश्चतुर्विधो मन्तव्यः ॥ ५००६ ॥ ( अर्थतेषु प्रायश्चित्तमाह- »
पढमे भंगे चरिमं, अणुवरए वा वि वितियभंगम्मि ।
सेसेण ण इह पगतं, वा चरिमे लिंगदाणं तु ॥ ५००७॥ 20 प्रथमे भङ्गे 'चरमं' पाराञ्चिकम् 'अनुपरतस्य' अनिवृत्तस्य । द्वितीयेऽपि भङ्गे पाराश्चिकम् । 'शेषेण तु' तृतीय-चरमभङ्गद्वयेन नात्र प्रकृतम् , अत्र पाराञ्चिकस्य प्रस्तुतत्वात् तस्य च परपक्षेऽघटमानत्वात् । अथवा "वा चरिमे लिंगदाणं तु" ति 'वा' विकल्पेन-भजनया चरमभङ्गद्वये लिङ्गदानं कर्तव्यम् , यद्युपशान्तस्तदाऽन्यस्मिन् स्थाने लिङ्गं दातव्यम् अन्यथा तु नेति भावः ॥ ५००७ ॥ अथ प्रथमभङ्गे दोपं दर्शयन्नाह
लिंगेण लिंगिणीए, संपत्तिं जइ णियच्छती पावो ।
सव्यजिणाणऽजातो, संघो आसातिओ तेणं ॥ ५००८ ॥ 'लिङ्गेन' रजोहरणादिना युक्तः 'लिङ्गिन्याः' संयत्याः सम्पत्तिं यदि अधमतया कथमपि कश्चित् पापः 'नियच्छति' प्राप्नोति तर्हि तेन पापेन सर्वजिनानाम् 'आर्याः' संयत्यः सङ्घश्च भगवानाशातितो मन्तव्यः ॥ ५००८ ॥
१ न मण्डल्यां प्रक्षिप्यते किन्तु ग्लानादीनामेव दीयत इति कां० ॥२ विविचंति भा०॥ ३इइ ग° भा० का विना ॥ ४ पक्षे विपयामिलापमङ्गीकृत्य दुका॥ ५ तदन्त. गतमवतरणं का एव वर्तते ॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org