SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ १३३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पाराञ्चिकपकृते सूत्रम् २ भुंजती जतणाए, अजतण दोसा इमे होति ॥ ४९९८॥ सर्वैरपि साधुभिराचार्यप्रायोग्यं स्वखमात्रकेषु ग्रहीतव्यम् । तथा ग्रहणे च निमन्त्रणे च यो वक्ष्यमाणो विधिः स सर्वोऽपि कर्तव्यः । एवं यतनया सूरयो भुञ्जते । अयतनया तु भुञ्जानानाम् 'इमे' वक्ष्यमाणा दोषा भवन्ति ।। ४९९८ ॥ एनामेव नियुक्तिगाथां भावयति सव्वेहि वि गहियम्मी, थोवं थोवं तु के वि इच्छंति । सव्वेसि ण वि भुंजति, गहितं पि वितिज आदेसो ॥ ४९९९ ॥ सर्वैरपि आचार्यप्रायोग्ये गृहीते केचिदाचार्या इदमिच्छन्ति, यथा-तत एकैकस्य हस्तात् स्तोकं स्तोकं गृहीत्वा गुरुणा भोक्तव्यम् ; एष प्रथम आदेशः । अपरे ब्रुवते--एकेनैव गुरु योग्यं ग्रहीतव्यम् , अथान्यैरपि गृहीतं ततस्तद्गृहीतमपि तेषां सर्वेषां हस्तात् स्तोकं स्तोकं न 10 भोक्तव्यम् , किन्तु तैर्निमन्त्रितेन वक्तव्यम् —पर्याप्तम् , इत ऊर्द्ध न गच्छति; एष द्वितीय आदेशः ॥ ४९९९ ॥ अमुमेवे व्याचष्टे गुरुभत्तिमं जो हिययाणुकूलो, सो गिण्हती णिस्समणिस्सतो वा । तस्सेव सो गिण्हति णेयरेसिं, अलब्भमाणम्मि व थोव थोवं ॥ ५००० ॥ यो गुरुभक्तिमान् यश्च गुरूणां 'हृदयानुकूलः' छन्दोनुवर्ती स गुरुपायोग्यं निश्रागृहेभ्यो16ऽनिश्रागृहेभ्यो वा गृह्णाति, तस्यैव च सम्बन्धि 'सः' आचार्यों भक्त-पानं गृह्णाति, न 'इतरेषाम्' अपरसाधूनाम् । अथैकः पर्याप्तं न लभते ततोऽलभ्यमाने स्तोकं स्तोकं सर्वेषामपि गृह्णाति ॥ ५००० ॥ एष ग्रहणविधिरुक्तः । सम्प्रति निमन्त्रणे विधिमाह सति भम्मि वि गिण्हति, इयरेसिं जाणिऊण निब्बंधं । [जी.२४९२] मुंचति य सावसेसं, जाणति उवयारभणियं च ॥ ५००१॥ 20 'सति' विद्यमानेऽपि प्राचुर्येण लाभे यदि इतरे साधवो निमन्त्रयमाणा गाढं निर्बन्धं कुर्वते ततस्तं ज्ञात्वा तेषामपि गृह्णाति । तच्च तदीयं भुञ्जानः सावशेषं मुञ्चति, मा सर्वस्मिन् भुक्ते प्रद्वेषं स गच्छेत् । उपचारभणितं च जानाति, 'अयमुपचारेण, अयं पुनः सद्भावेन निमन्त्रयते' इत्येवं बहिश्चिद्दरुपलक्षयतीत्यर्थः ॥ ५००१ ।। गुरुणो(णं) भुत्तुव्वरियं, बालादसतीय मंडलिं जाति । 25 जं पुण सेसगगहितं, गिलाणमादीण तं दिति ॥ ५००२ ॥ ___ गुरूणां यद् भुक्तोद्वरितं तद् बालादीनां दीयते । तेषामभावे 'मण्डली याति' मण्डली. प्रतिग्रहे क्षिप्यते । यत् पुनः शेषैः-गुरुभक्तिमयतिरिक्तैः साधुभिर्मात्रके गृहीतं तद् ग्लानादीनी प्रयच्छन्ति ॥ ५००२ ॥ सेसाणं संसहूं, न छुब्भती मंडलीपडिग्गहए । पत्तेग गहित छुम्भति, ओभासणलंभ मोत्तूणं ॥ ५००३ ॥ 'शेषाणां' गुरुव्यतिरिक्तानां संसृष्टं मण्डलीप्रतिग्रहे न क्षिप्यते । यत्तु ग्लानादीनामर्थाय १ स्तोकं सूरिः 'नापि' नैव भुते, किन्तु का ० ॥ २ °व द्वितीयमादेशं व्या का० ॥ ३ °नां मण्डलीथत्रिः प्रय' का ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy