________________
15
१३३४
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ पाराश्चिकप्रकृते सूत्रम् २ ___ एकेन साधुना मुखानन्तकमतीवोज्वलं लब्धम् , तस्य च गुरुभिर्ग्रहणं कृतम् । तत्रापि 'एवमेव' पूर्वाख्यानकसदृशं वक्तव्यम् । नवरं तत् पुनर्मुखानन्तकं प्रत्यर्पयतोऽपि न गृही'तम् । ततो गुरुणा वगण एव भक्तं प्रत्याख्यातम् । निशायां च विरहं लब्ध्वा 'मुखानन्तकं गृहासि' इति भणता गाढतरं गले ग्रहणं कृतम् । सम्मूढेन च 'इतरेणापि' गुरुणा स गलके गृहीतः । एवं द्वावपि मृतौ ॥ ४९९० ॥ उलूकाक्षदृष्टान्तमाह
अत्थंगए वि सिव्वसि, उलुगच्छी! उक्खणामि ते अच्छी।
पढमगमो नवरि इहं, उलुगच्छीउ त्ति ढोकेति ॥ ४९९१ ॥ एकः साधुरस्तङ्गतेऽपि सूर्ये सीव्यन् अपरेण साधुना परिहासेन भणितः-उलूकाक्ष ! किमेवमस्तङ्गतेऽपि सूर्ये सीव्यसि ? । स प्राह-एवं भणतस्तव द्वे अप्यक्षिणी उत्खनामि । 10 अत्रापि सर्वोऽपि प्रथमाख्यानकगमो मन्तव्यः । नवरमिह वगणे प्रत्याख्यातभक्तस्य कालग.
तस्य रजोहरणाद् अयोमयीं कीलिकामाकृष्य 'मां उलूकाक्षं भणसि ? इति ब्रुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य ढोकयति, 'वैरं मया निमितम्' इति कृत्वा ॥ ४९९१ ।। शिखरिणीदृष्टान्तमाह
सिहरिणिलंभाऽऽलोयण, छंदिऍ सव्वाइते अ उग्गिरणा।
भत्तपरिण्णा अण्णहि, ण गच्छती सो इहं णवरिं ॥ ४९९२॥ एकेन साधुना उत्कृष्टा शिखरिणी लब्धा । सा च गुरूणामालोचिता, तया च गुरवः 'छन्दिताः' निमन्त्रिताः । सा च तैः सर्वाऽप्यापीता । ततः स साधुः प्रद्वेषमुपगतो मारणार्थ दण्डकमुद्गीर्णवान् । स गुरुभिः क्षामितोऽपि यदा नोपशाम्यति तदा भक्तपरिज्ञा कृता । नवरमिह 'सः' आचार्योऽन्यस्मिन् गणे न गतः । तस्य च समाधिना कालगतस्य शरीरकं 20 तेन पापात्मना दण्डकेन कुट्टितम् ॥ ४९९२ ॥ यत एते दोषास्ततो लोभस्तीत्रो न कर्तव्यः । तथा चाह
तिव्वकसायपरिणतो, तिव्वयरागाणि पावइ भयाई ।
मयगस्स दंतभंजण, सममरणं ढोकणुग्गिरणा ॥ ४९९३ ॥ तीवाः-उत्कटा ये कषायास्तेषु परिणतो जीवस्तीव्रतरकाणि भयानि प्राप्नोति । यथा28 प्रथमदृष्टान्तोक्तस्याचार्यस्य तीव्रलोभपरिणतस्य दन्तमञ्जनभयम् , द्वितीयदृष्टान्तोक्तयोस्तु शिष्या-ऽऽचार्ययोस्तीवक्रोधपरिणतयोः समकालं मरणम्, तृतीयदृष्टान्तप्रसिद्धस्य साधो
लॊचनढौकनम् , चतुर्थदृष्टान्तोक्तस्य दण्डकोद्गिरणम् । ईदृशाः स्वपक्षकषायदुष्टा लिङ्गपाराञ्चिकाः कर्तव्याः ।। ४९९३ ॥ गतः प्रथमो भङ्गः । अथ द्वितीयभङ्गमाह
रायवधादिपरिणतो, अहवा वि हवेज रायवहओ तु।
सो लिंगतों पारंची, जो वि य परिकदृती तं तु ॥ ४९९४ ॥ _राज्ञो राजामात्यस्य वा अपरस्य वा प्राकृतगृहस्थस्य वधाय परिणतः, अथवा राजवधक एव स भवेत् विहितराजवध इत्यर्थः, एवमनेकविधः परपक्षदुष्टः । एष सर्वोऽपि लिङ्गपाराश्चिकः १°वाणो मृतस्य द्वे भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org