________________
१३३२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पाराञ्चिकप्रकृते सूत्रम् २ __ गणधरा गौतमादयो 'अभ्युद्यतं विहार' जिनकल्पप्रभृतिकं परेषामुपदिशन्ति खयं पुनरुदासीनास्तं न प्रतिद्यन्ते, 'ऋद्धिं वा' अक्षीणमहानसिक-चारणादिकां लब्धिमुपजीवन्ति 'निस्सङ्गा वयम्' इति च भणन्ति ॥ ४९८१ ॥ अथ महर्दिकपदं व्याख्यानयति
गणधर एव महिड्डी, महातवस्सी व वादिमादी वा ।
तित्थगरपढमसिस्सा, आदिग्गहणेण गहिता वा ॥ ४९८२ ॥ __इह गणधर एव सर्वलब्धिसम्पन्नतया महर्द्धिक उच्यते, यद्वा महर्द्धिको महातपस्वी वा वादि-विद्या-सिद्धप्रभृतिको वा भण्यते, तस्य यद् अवर्णवादादिकरणं सा महर्द्धिकाशातना । गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, आदिग्रहणेन वा ते गृहीता मन्तव्याः ॥ ४९८२ ॥
अथैतेषामाशातनायां प्रायश्चित्तमार्गणामाह10 पढम-बितिएसु चरिमं, सेसे एकेक चउगुरू होति ।
सव्वे आसादिंतो, पावति पारंचियं ठाणं ॥ ४९८३ ॥ __ अत्र - "तित्थेयर पवयण सुयं" इति (४९७५) गाथाक्रमप्रामाण्यात् । प्रथमःतीर्थकरो द्वितीयः-सङ्घस्तयोर्देशतः सर्वतो वाऽऽशातनायां पाराञ्चिकम् । 'शेषेषु' श्रुतादिषु
एकैकस्मिन् देशतः आशात्यमाने चतुर्गुरुकाः प्रायश्चित्तं भवन्ति । अथ सर्वतस्तान्याशातयति 16 ततस्तेष्वपि पाराञ्चिकं स्थानं प्राप्नोति ॥ ४९८३ ॥
तित्थयरपढमसिस्सं, एकं पाऽऽसादयंतु पारंची।
अत्थस्सेव जिणिंदो, पभवो सो जेण सुत्तस्स ॥ ४९८४ ॥ 'तीर्थकरप्रथमशिष्यं' गणधरमेकमप्याशातयन् पाराञ्चिको भवति । कुतः ? इत्याह'जिनेन्द्रः' तीर्थकरः स केवलस्यैवार्थस्य 'प्रभवः' प्रथमत उत्पत्तिहेतुः, सूत्रस्य पुनः स एव 20 गणधरो येन कारणेन 'प्रभवः' प्रथमतः प्रणेता, ततस्तमेकमप्याशातयतः पाराञ्चिकमुच्यते ॥ ४९८४ ॥ उक्त आशातनापाराञ्चिकः । सम्प्रति प्रतिसेवनापाराञ्चिकमाह
पडिसेवणपारंची, तिविधो सो होइ आणुपुवीए ।
दुढे य पमत्ते या, णेयव्वे अण्णमण्णे य ॥ ४९८५ ॥ प्रतिसेवनापाराञ्चिकः 'सः' इति पूर्वोपन्यस्तः 'त्रिविधः' त्रिप्रकारः ‘आनुपूर्व्या' सूत्रोक्त26 परिपाट्या भवति । तद्यथा-दुष्टः पाराञ्चिकः, प्रमत्तः पाराञ्चिकः, अन्योन्यं च कुर्वाणः पाराञ्चिको ज्ञातव्यः ॥ ४९८५॥ तत्र दुष्टं तावदाह
दुविधो य होइ दुट्ठो, कसायदुट्ठो य विसयदुट्ठो य । [जी.२४७९]
दुविहो कसायदुट्ठो, सपक्ख परपक्ख चउभंगो ॥ ४९८६ ॥ द्विविधश्च भवति दुष्ट:-कषायदुष्टश्च विषयदुष्टश्च । तत्र कषायदुष्टो द्विविधः-खप:०क्षदुष्टः परपक्षदुष्टश्च । अत्र चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् । तद्यथा-वपक्षः खपक्षे दुष्टः १ खपक्षः परपक्षे दुष्टः २ परपक्षः स्वपक्षे दुष्ट: ३ परपक्षः परपक्षे दुष्टः ४ ॥४९८६।।
१°दयो जिनकल्पादिरूपमभ्युद्यतं विहारं परेपा कां० ॥ २१» एतन्मध्यगतः पाठः को० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org