________________
भाष्यगाथाः १९७१-८१] चतुर्थ उद्देशः।
१३३१ तत्र तीर्थकरं यथाऽऽशातयति तथाऽभिधीयते
पाहुडियं अणुमण्णति, जाणतो किं व भुंजती भोगे ।
थीतित्थं पि य वुञ्चति, अतिकक्खडदेसणा यावि ॥ ४९७६ ॥ 'प्राभृतिकां' सुरविरचितसमवसरण-महाप्रातिहार्यादिपूजालक्षणामर्हन् यद् अनुमन्यते तन्न सुन्दरम् । ज्ञानत्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान् किमिति भुते ।। मल्लिनाथादेश्च स्त्रिया अपि यत् तीर्थमुच्यते तद् अतीवासमीचीनम् । 'अतिकर्कशा' अतीवदुरनुचरा तीर्थकरैः सर्वोपायकुशलैरपि या देशना कृता साऽप्ययुक्ता ॥ १९७६ ॥
__अण्णं व एवमादी, अवि पडिमासु वि तिलोगमहिताणं ।
पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं ॥ ४९७७ ॥ अन्यमप्येवमादिकं तीर्थकृतामवणे यो भाषते, तथा 'अपी'त्यभ्युच्चये, 'त्रिलोकमहितानां' 10 भगवतां याः प्रतिमास्ताखपि यद्यवर्ण भाषते, यथा-'किमेतासां पाषाणादिमयीनां माल्याऽलङ्कारादिपूजा क्रियते ?' एवं ब्रुवन् , 'प्रतिरूपं वा विनयं' वन्दन-स्तुति-स्तवादिकं तासामवज्ञाबुद्ध्या अकुर्वन् पाराञ्चिकं स्थान प्राप्नोति ॥४९७७॥ अथ प्रवचनं-सङ्घस्तस्याशातनामाह
अकोस-तजणादिसु, संघमहिक्खिवति संघपडिणीतो।
अण्णे वि अस्थि संघा, सियाल-णंतिक-ढंकाणं ॥ ४९७८ ॥ 1 यः सङ्घअत्यनीकः सः ० "अक्कोस-तज्जणाइसु" ति विभक्तिव्यत्ययाद् आक्रोश-तर्जनादिभिः सङ्घमधिक्षिपति । यथा-सन्त्यन्येऽपि शृगाल-नान्तिक्क-ढङ्कप्रभृतीनां सङ्घाः, यादृशास्ते तादृशोऽयमपीति भावः, एष आक्रोश उच्यते । तर्जना तु-'हुं हुं ज्ञातं भवदीयं सङ्घत्वम्' इत्यादिका ॥ ४९७८ ॥ अथ श्रुताशातनामाह
काया वया य ते चिय, ते चेव पमायमप्पमादा य ।
___मोक्खाहिकारियाणं, जोतिसविजासु किं च पुणो ॥ ४९७९ ॥ - दशवकालिकोत्तराध्ययनादौ यत् त एव षट् कायास्तान्येव च व्रतानि तावेव प्रमादाऽप्रमादौ भूयोभूय उपवर्ण्यन्ते तद् अतीवायुक्तम् । मोक्षाधिकारिणां च साधूनां ज्योतिषविद्यासु पुनः किं नाम कार्य येन श्रुते ताः प्रतिपाद्यन्ते ॥ ४९७९ ॥ अथाऽऽचार्याशातनामाह
इड्वि-रस-सातगुरुगा, परोवदेसुजया जहा मंखा । [सू.नि.११३] 25
अत्तट्ठपोसणरया, पोसेंति दिया व अप्पाणं ॥ ४९८०॥ ___ आचार्याः स्वभावादेव ऋद्धि-रस-सातगुरुकाः, तथा मङ्खा इव परोपदेशोद्यताः, लोकावजनप्रसक्ता इति भावः, 'आत्मार्थपोषणरताः' खोदरभरणैकचेतसः । इदमेव व्याचष्टे-द्विजा इवाऽऽत्मानममी पोषयन्ति ॥ ४९८० ॥ अथ गणधराशातनामाहअब्भुजयं विहारं, देसिंति परेसि सयमुदासीणा ।
30 उवजीवंति य रिद्धि, निस्संगा मो ति य भणति ॥ ४९८१॥ १पते, अपि च 'त्रिलो भा० ॥ २ND एतदन्तर्गतः पाठः भा. का. नास्ति ॥ ३°धाभिः उपलक्षणत्वाद् मन्त्र-निमित्तादिभिश्च पुनः किं का० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org