________________
15
१३३०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पाराश्चिकप्रकृते सूत्रम् २ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः पाराञ्चिकाः प्रज्ञप्ताः । तद्यथा-दुष्टः पाराञ्चिकः, प्रमत्तः पाराश्चिकः, 'अन्योन्यं' परस्परं मुख-पायुप्रयोगतः प्रतिसेवनां कुर्वाणः पाराश्चिक इति सूत्रसमासार्थः ॥ अथ विस्तरार्थ भाष्यकृद् बिभणिषुराह
अंचु गति-पूयणम्मि य, पारं पुणऽणुत्तरं बुधा विति ।
सोधीय पारमंचइ, ण यावि तदपूतियं होति ॥ ४९७१ ॥ ____ "अञ्चु गति-पूजनयोः" इति वचनाद् अञ्चुर्धातुर्गतौ पूजने चात्र गृह्यते । तत्र गत्यर्थों यथा-पारं-तीरं गच्छति येन प्रायश्चित्तेनासेवितेन तत् पाराञ्चिकम् । अथ पारं किमुच्यते ? इत्याह-'पारं पुनः' संसारसमुद्रस्य तीरभूतम् 'अनुत्तरं निर्वाणं 'बुधाः' तीर्थकृदादयो ब्रुवते,
अनेनासेवितेन साधुर्मोक्षं गच्छतीति भावः । तद् यस्यापद्यते सोऽप्युपचारात् पाराञ्चिक 10 उच्यते । यद्वा शोधेः 'पारं' पर्यन्तमञ्चति यत् तत् पाराञ्चिकम् , अपश्चिमं प्रायश्चित्तमित्यर्थः । पूजार्थो यथा—'न चापि' नैव 'तत्' प्रायश्चित्तपारगमनमपूजितं किन्तु पूजितमेव, ततो येन तपसा पारं प्रापितेन अञ्चयते-श्रीश्रमणसङ्घन पूज्यते तत् पाराश्चिकं पाराञ्चितं वाऽभिधीयते । तद्योगात् साधुरपि पाराञ्चिकः ॥ ४९७१ ॥ अथ तमेव भेदतः प्ररूपयति
आसायण पडिसेवी, दुविहो पारंचितो समासेणं ।
एकेकम्मि य भयणा, सचरित्ते चेव अचरित्ते ॥ ४९७२ ॥ पाराश्चिकः समासेन द्विविधः, तद्यथा-आशातनापाराश्चिकः प्रतिसेविपाराञ्चिकश्च । पुनरेकैकस्मिन् द्विविधा भजना कर्तव्या । कथम् ? इत्याह-द्वावप्येतौ सचारित्रिणौ वा स्यातामचारित्रिणौ वा ॥ ४९७२ ॥ कथं पुनरेषा भजना ? इत्याह
सव्वचरित्तं भस्सति, केणति पडिसेवितेण तु पदेणं ।
कस्थति चिट्ठति देसो, परिणामऽवराहमासज्ज ॥ ४९७३ ॥ केनचिदपराधपदेन पाराञ्चिकापत्तियोग्येन प्रतिसेवितेन सर्वमपि चारित्रं भ्रश्यति, कुत्रापि पुनः चारित्रस्य देशोऽवतिष्ठते । कुतः ? इत्याह-'परिणाम' तीव्र-मन्दादिरूपम् 'अपराधं च' उत्कृष्ट-मध्यम-जघन्यरूपमासाद्य चारित्रं भवेद्वा न वा ॥ ४९७३ ॥ इदमेव भावयति
तुल्लम्मि वि अवराधे, परिणामवसेण होति णाणत्तं ।
कत्थति परिणामम्मि वि, तुल्ले अवराहणाणत्तं ।। ४९७४ ॥ तुल्येऽप्यपराधे 'परिणामवशेन' तीव्र-मन्दाद्यध्यवसायवैचित्र्यबलात् चारित्रपरिभ्रंशादौ नानात्वं भवति, कुत्रचित् पुनः परिणामे तुल्येऽपि 'अपराधनानात्वं प्रतिसेवनावैचित्र्यं भवति ॥ ४९७४ ॥ अथाशातनापाराश्चिकं व्याचिख्यासुराह
तित्थकर पवयण सुते, आयरिए गणहरे महिड्डीए । 30.
एते आसायंते, पच्छिते मग्गणा होइ ॥ ४९७५ ।। तीर्थकरं प्रवचनं श्रुतमाचार्यान् गणधरान् महर्धिकांश्च, एतान् य आशातयति तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ॥ ४९७५ ॥ १°त्रिणावचारित्रिणौ वा भवेताम् ॥ ४९७२ ॥ का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org