SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४९६३-७०] चतुर्थ उद्देशः । १३२९ तन्मध्यादाखादयन्ति । अथ तथापि न विसर्जयन्ति तत एवं सालम्बनाः 'अशठाः' राग-द्वेषरहिता अमूछिताः स्तोकं भुञ्जाना अपि शुद्धाः ॥ ४९६७ ॥ उपसंहरन्नाह एत्थं पुण अधिकारो, अणुधाता जेसु जेसु ठाणेसु । उच्चारियसरिसाई, सेसाइँ विकोवणट्ठाए ॥ ४९६८॥ 'अत्र पुनः' प्रस्तुतसूत्रे १ हस्तकर्म-मैथुन-रात्रिभक्तविपयैः स्थानः- 'अधिकारः' प्रयो-5 जनम् । कैः ? इत्याह-येषु येषु स्थानेषु 'अनुद्धातानि' गुरुकाणि प्रायश्चित्तानि भणितानि तैरेवाधिकारः । 'शेषाणि' लघुप्रायश्चित्तसहितानि स्थानानि » पुनरुच्चारितार्थसदृशानि शिष्याणां विकोपनार्थमुक्तानि ॥ ४९६८ ॥ ॥ अनुद्धातिकप्रकृतं समासम् ॥ पारा श्चि क प्रकृतम् सूत्रम् तओ पारंचिया पन्नत्ता, तं जहा-दुढे पारंचिए, पमत्ते पारंचिए, अन्नमन्नं करेमाणे पारंचिए २॥ अस्य सम्बन्धमाहवुत्ता तवारिहा खलु, सोधी छेदारिहा अध इदाणिं । 16 देसे सव्वे छेदो, सव्वे तिविहो तु मूलादी ॥ ४९६९ ॥ तपोर्हा शोधिः खलु पूर्वसूत्रे प्रोक्ता, अथेदानी छेदाहा॑ऽभिधीयते । स च च्छेदो द्विधादेशतः सर्वतश्च । देशच्छेदः पञ्चरात्रिन्दिवादिकः षण्मासान्तः । सर्वच्छेदः 'मूलादिः' मूला-ऽनवस्थाप्य-पाराञ्चिकभेदात् त्रिविधः । अत्र सर्वच्छेदः पाराञ्चिकलक्षणोऽधिक्रियते ॥४९६९ ॥ आह यद्येवं तर्हि-- 20 छेओ न होइ कम्हा, जति एवं तत्थ कारणं सुणसु । अणुधाता आरुवणा, कसिणा कसिणेस संबंधो ॥ ४९७०॥ छेद एव सूत्रेऽपि कमान्न भवति?, "ततो छेदारिहा पन्नत्ता, तं जहा-दुढे छेदारिहे" इत्यादिसूत्रं किमर्थं न पठितम् ? इति भावः । सूरिराह—यद्येवं भवदीया बुद्धिस्ततोऽत्र कारणं शृणु-या किलादिसूत्रेऽनन्तरोक्तेऽनुद्धाताख्याऽऽरोपणा भणिता सा 'कृत्स्ना' । गुरुकेत्यर्थः, - 25 इयमपि पाराञ्चिकाख्याऽऽरोपणा कृत्स्लैव, अतः कृत्साया आरोपणाया अनन्तरं कृत्वारोपणाऽभिधीयते । एष सम्बन्धः ॥ ४९७०॥ १ एतन्मध्यगतः पाठः भा० का० नास्ति ॥ २ ३'शृणु' निशमय । तथाहि-या कां० ॥ ४ » एतचिह्नान्तर्गतः पाठः का. एव वर्तते ॥ एतदन्तर्गतः पाठः भा० कां• नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy