________________
15
१३२८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ उपयाचितं मन्येत ॥ ४९६२ ॥ कुतः ? इति चेद् उच्यते
अवधीरिया व पतिणा, सवत्तिणीए व पुत्तमाताए ।
गेलण्ण व पुट्ठा, बुग्गहउप्पादसमणे वा ॥ ४९६३ ॥ _ 'पतिना' भ; 'अवधीरिता' अपमानिता सा देवी, यद्वा या तस्याः सपत्नी सा पुत्रमाता तया न सुष्ठ बहुमान्यते, ग्लानत्वेन वा सा गाढतरं स्पृष्टा, विग्रहो वा तस्याः केनापि सार्धमुत्पन्नस्ततो विग्रहोत्पादस्य शमनार्थं वानमन्तरपूजा कर्तव्या, स च वानमन्तरो रात्रौ साधुषु भोजितेषु परितोषमुद्वहति ॥ ४९६३ ॥ ततः
एकेकं अतिणेउं, निमंतणा भोयणेण विपुलेणं ।
भोत्तुं अणिच्छमाणे, मरणं च तहिं ववसितस्स ॥ ४९६४ ॥ 10 एकैकं साधु बलाभियोगेन राजभवने 'अतिनीय' प्रवेश्य रात्री विपुलेन भोजनेन निमन्त्रणा
कृता, अभिहिताश्च साधवः-यदि सम्प्रति न भोक्ष्यध्वे ततो वयं व्यपरोपयिष्यामः । एवमुक्ते तेषामेकस्य साधोस्तदानीं भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छिन्नम् , द्वितीयो हर्षादुल्लसितः, तृतीयो भीत इत्यादि यथा मैथुने तथा मन्तव्यम् ॥ ४९६४ ॥ अत्र प्रायश्चित्तमाह
सुद्धल्लसिते भीए, पञ्चक्खाणे पडिच्छ गच्छ थेर विद् ।
मूलं छेदो छम्मास चउरों मासा गुरुग लहुओ ॥ ४९६५ ॥ गतार्था (गा० ४९५२)॥ ४९६५ ।। अत्र यतनामाह- .
तत्थेव य भोक्खामो, अणिच्छे भुंजामों अंधकारम्मि ।
कोणादी पक्खेवो, पोट्टल भाणे व जति णीता ॥ ४९६६ ॥ 20 रात्रौ भोज्यमानैः साधुभिरभिधातव्यम्-भाजनेषु गृहीत्वा ततः 'तत्रैव' खप्रतिश्रये
भोक्ष्यामहे, न वर्तते गृहस्थानां पुरतो भोक्तुम् । एवमुक्त्वा ततोऽल्पसागारिकं नीत्वा परिष्ठापयन्ति । अथान्यत्र नेतुं न प्रयच्छन्ति भणन्ति च-अस्माकं पुरतो भोक्तव्यम् । ततो वक्तव्यम्-प्रदीपमपनयत, अन्धकारे भोजनं कुर्मः; ततस्तेषामपश्यतां कोणेषु आदिशब्दाद्
अपरत्र वा एकान्ते कवलान् प्रक्षिपन्ति । अथवा वस्त्रेण पोट्टलकं बद्धा तत्र प्रक्षिपन्ति, भाजनेषु 25 वा प्रक्षिपन्ति यदि निजकानि अलाबूनि भवन्ति ॥ ४९६६ ॥ अथ प्रदीपं नापनयन्ति तत इदं वक्तव्यम्
गेलण्णेण व पुट्ठा, बाहाडऽरुची व अंगुली वा वि ।
भुंजंता वि य असढा, सालंवाऽमुच्छिता सुद्धा ॥ ४९६७ ॥ यदि ते दुर्बलास्ततो भणन्ति-ग्लानत्वेन स्पृष्टा वयम्, एतच्चास्माकमपथ्यम्, यदि 20 समुद्दिशामस्ततो म्रियामहे, तस्मान्मा ऋषिहत्यां कुरुत । अथवा भणितव्यम्-अस्माभिर्गलकं
यावद् भुक्तम् , वाहाडं च-प्रभूतं भुक्तानां कुतो रुचिरुपजायते । यद्येवं न प्रत्यर्पयन्ति ततो मातृस्थानेनाङ्गुली वदने प्रक्षिप्य वमनमुत्पादयन्ति । यदि तथापि न प्रतियन्ति ततः स्तोकं ____१ प्रत्ययन्ति ताटी० मो० डे० ॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org