________________
भाष्यगाथाः ४९५६-६२ ] चतुर्थ उद्देशः ।
सहीए दोसेणं, दहुं सरिउं व पुव्वभ्रुत्ताई ।
ते गच्छ सहमादी, असजणा तीसु वी जतणा ।। ४९५९ ॥ 'वसतेर्दोषेण' स्त्री- पशु-पण्डकसंसक्तिलक्षणेन, यद्वा स्त्रियम् आलिङ्गनादिकं वा दृष्ट्वा, गृहस्थकाले वा यानि स्त्रीभिः सार्धं भुक्तानि वा हसितानि वा ललितानि वा तानि स्मृत्वा मैथुनभाव उत्पद्यते । एवमुत्पन्ने किं कर्त्तव्यम् ? इत्याह - " तेगिच्छ" इत्यादि, चिकित्सा 5 कर्तव्या, सा च निर्विकृतिकप्रभृतिका । तामतिक्रान्तस्य शब्दादिका वा यतना कर्त्तव्या । किमुक्तं भवति ? - यत्र स्थाने स्त्रीशब्दं रहस्यशब्दं वा शृणोति तत्र स्थविरसहितः स्थाप्यते, आदिशब्दाद् यत्रालिङ्गनादिकं पश्यति तत्रापि स्थाप्यते । " असज्जण " ति तस्यां शब्दश्रवणादिरूपायां चिकित्सायां सजनं-सङ्गो गृद्धिरिति यावत् सा तेन न कर्तव्या । एवं 'त्रिष्वपि ' दिव्यादिषु मैथुनेषु यतना मन्तव्या ॥ ४९५९ ।। इदमेव सविशेषमाह - बियपदे तेगिंछं, णिव्वीतियमादिगं अतिकंते ।
10
सनिमित्तनिमित्त पुण, उदयाऽऽहारे सरीरे य ॥ ४९६० ।।
द्वितीयपदे निर्विकृतिका ऽवमौदरिका-निर्बलाहारोर्द्धस्थाना-ऽऽचाम्ला- डभ कार्थ षष्ठाऽष्टमादिरूपां चिकित्सामतिक्रान्तस्य शब्दादिकाऽनन्तरोक्ता यतना भवति । एषा च सनिमित्तेऽनिमित्ते वा मैथुनाभिलाषे भवति । तत्र सनिमित्तो वसतिदोषादिनिमित्तसमुत्थः, अनिमित्तः पुनः कर्मों - 15 दयेन १ आहारतः २ शरीरपरिवृद्धितश्च ३ य उत्पद्यते । सर्वमेतद् यथा निशीथे प्रथमोहेंशके भणितं तथैव द्रष्टव्यम् ॥ ४९६० ॥ गतं मैथुनम् । अथ रात्रिभोजनमाह - रातो य भोयणम्मि, चउरो मासा हवंतऽणुग्धाया ।
आणादिणो य दोसा, आवजण संकणा जाव ॥ ४९६१ ॥
रात्रौ भोजने क्रियमाणे चत्वारो मासाः 'अनुद्धाताः ' गुरवो भवन्ति आज्ञादयश्च दोषाः 120 ये च प्राणातिपातादिविषया आपत्ति - शङ्कादोषाः परिग्रहस्यापतिं शङ्कां च यावत् प्रथमोद्देशके < "नो कप्पइ राओ वा वियाले वा असणं वा ४" इत्यादी रात्रिभक्तसूत्रे ( सूत्र ४२ ) ० इहैवाभिहितास्ते सर्वेऽपि द्रष्टव्याः || ४९६१ ॥ अथ द्वितीयपदमाह -
णिरुari च खेमं च, होहिति रण्णो य कीरतू संती |
अद्धानिगतादी, देवी पूयाय अज्झियगं ॥ ४९६२ ॥
उपद्रवो नाम - अशिवं गलरोगादिकं वा, तस्याभावो निरुपद्रवम् । 'क्षेमं' परचक्राद्युपप्लवाभावः । ततः 'निरुपद्रवं च क्षेमं च मदीये देशे भविष्यति' इति परिभाव्य राजा शान्ति कर्तुकामस्तपखिनो रात्रौ भोजयेत् । यद्वा राजपुत्रो वा नागरा वा 'राज्ञः शान्तिः क्रियताम्' इति कृत्वा ये रात्रौ न भुञ्जते सुतपखिनश्च ते रात्रौ भोजनीयाः, एष तस्या विद्याया उपचार इति परिभावयन्ति, ते च साधवोऽध्वनिर्गतादयस्तत्र सम्प्राप्तास्ततो वक्ष्यमाणो विधिर्विधातव्यः । 30 यद्वा राज्ञः कस्यापि देवी वानमन्तरपूजां कृत्वा तपखिनां रात्रिभोजनलक्षणम् " अज्झियकं" एतचिह्नमध्यगतः पाठः भा० कां० नास्ति ॥ २ ला कर्त्तव्या । तत्र कां० ॥ एतदसर्गतः पाठः भा० कां० नास्ति ॥
For Private & Personal Use Only
३
१३२७
१
Jain Education International
25
www.jainelibrary.org