________________
१३२६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १
अलभंते चिय मरणं, असमाही तित्थवोच्छेदो ॥ ४९५६ ॥ 'इह दुर्भिक्षं भविष्यति' इति मत्वा सूरिभिरनागतमेव गच्छं गृहीत्वा निर्गन्तव्यम् । अथ स्वयं जवाबलपरिक्षीणास्ततः साधवो विसर्जनीयाः । अथ न विसर्जयन्ति तत आचार्यस्यासामाचारीनिष्पन्नो लघुको मासो भवति आज्ञादयश्च दोषाः । एते चापरे तत्र दोषा भवन्ति5 स गच्छो दुर्भिक्षे भक्त-पानमलभमानः “दिगिंछाए" ति बुभुक्षया परितापितः सन् 'कालेन' कालक्रमेण एषणाशुद्धिमपि प्रजहाति, मरणमपि चासमाधिना भक्तमलभमानस्य भवेत् , तीर्थव्यवच्छेदश्च भवति, अतो विसर्जनीयः सर्वोऽपि गच्छः । तत्र च विसर्जिते किं भवति ? इति अत आह-"नेहाणुराग” इत्यादि पूर्वगाथायाः पश्चार्द्धम् । » स्नेहानुरागरक्तः कश्चित्
क्षुल्लको नेच्छति गन्तुं परमनिच्छन्नपि प्रेषितः । ततोऽसौ गुरुस्नेहानुरागपरवशो देशस्कन्धात् 10 पलायित्वा प्रतिनिवृत्तः । सूरिभिरभिहितम् -दुष्टु त्वया कृतं यदेवं भूयः प्रत्यागतः ।
आचार्याश्च स्वयं केषुचिन्निश्रागृहेषु यां भिक्षां लभन्ते तस्याः संविभागं क्षुल्लकस्य प्रयच्छन्ति । ततः क्षुल्लकश्चिन्तयति-अहो ! मया गुरवोऽपि क्लेशिताः । ततः स पृथग् भिक्षां हिण्डितः । तत्रैका प्रोषितपतिका क्षुल्लकमुपसर्गयन्ती भणति-यदि मया साधं तिष्ठसि ततो यथेष्टं ते भक्तं पूरयिष्यामीति ॥ ४९५५ ॥ ४९५६ ॥ एवं च
भिक्खं पि य परिहायति, भोगेहिँ णिमंतणा य साहुस्स । गिण्हति एकंतरियं, लहुगा गुरुगा चउम्मासा ॥ ४९५७ ।। पडिसेवंतस्स तहिं, छम्मासा छेदों होति मूलं च।।
अणवट्ठप्पो पारंचिओ य पुच्छा य तिविहम्मि ॥ ४९५८ ॥ भैक्षमपि दुर्भिक्षानुभावेन परिहीयते भोगैश्च निमन्त्रणा तस्य साधोः समजनि ततः स 20 चिन्तयति-ययेनां प्रतिसेवितुं नेच्छामि ततो भक्ताभावादसमाधिमरणेन म्रिये, अतः साम्प्रतं तावत् प्रतिसेवे, पश्चाद् दीर्घ कालं संयम पालयिष्यामि सूत्रार्थौ च ग्रहीष्यामि एतत्प्रत्ययं च प्रायश्चित्तं चरिष्यामि; एवं चिन्तयित्वा यतनां करोति । कथम् ? इत्याह-"गिण्हइ" इत्यादि, एकान्तरितं भक्तं गृह्णाति प्रतिसेवते च । तत्र प्रथमदिवसे प्रतिसेवमानस्य चत्वारो लघुमासाः । द्वितीये दिनेऽभक्तार्थेन स्थित्वा तृतीये दिने प्रतिसेवमानस्य चत्वारो गुरुमासाः ॥ ४९५७ ॥ 25 एवमेकान्तरितं भक्तं गृह्णतस्तां चे 'तत्र' तादृशे दुर्भिक्षे प्रतिसेवमानस्य पञ्चम-सप्तमयोर्दिनयोयथाक्रमं षण्मासा लघवो गुरवश्च भवन्ति, ततो नवमे दिने च्छेदः, तत एकादशे मूलम् , तदनन्तरं त्रयोदशे दिवसेऽनवस्थाप्यम्, ततः पञ्चदशे दिवसे प्रतिसेवमानस्य पाराश्चिकम् । अथ निरन्तरं प्रतिसेवते तदा द्वितीयदिवस एव मूलम् । एषा वृद्धिरभिहिता । ___ "पुच्छा य तिविहम्मि" ति शिष्यः पृच्छति-'त्रिविधे' दिव्य-मानुष्य-तैरश्चलक्षणे मैथुने 30 कथमभिलाष उत्पद्यते ॥ ४९५८ ॥ सूरिराह
१ - एतदन्तर्गतः पाठः भा० का० नास्ति ॥ २ ताटी. मो. डे० विनाऽन्यत्र-च प्रतिसेवमानस्य 'तत्र' पञ्च भा० को० ॥ ३°तमादिषु दिनेषु षण्मासा लघवो गुरवश्च भवन्ति, ततश्छेदः, ततो मूलम्, तदनन्तरमनवस्थाप्यम्, ततः पाराश्चिकम् । अथ निर° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org