________________
जि
.
भाष्यगाथाः ४९४८-५५) चतुर्थ उद्देशः। .
विगुरुविया य ललणा, हरिसा भयसा व रोमंचो ॥ ४९५१मानगर ___'तत्' तथाविधं 'विशसनं' व्यपरोपणं स्वाभाविक' साधोरेव 'कैतविकं वा' प्रतिमायाः क्रियमाणं सहसा दृष्ट्वा 'विकुर्विताश्च' अलङ्कृत-विभूषिता ललना विलोक्य कस्यापि हर्षेण भयेन वा रोमाञ्चो भवेत् । स सकारोऽलाक्षणिकः ॥ ४९५१ ॥ अत्रैव प्रायश्चित्तमाह
सुद्धल्लसिते भीए, पचक्खाणे पडिच्छ गच्छ थेर विदू। ।
मूलं छेदो छम्मास चउर गुरु-लहु लहुगमासो ॥ ४९५२ ॥ यस्तावद् मरणमध्यवसितः स शुद्धः । द्वितीयः-उल्लसितः- एतेनापि मिषेण स्त्रियं प्राप्स्यामः' इति बुद्ध्या उद्धृषितरोमकूपः सञ्जातन्तस्य मूलम् । अपरः- यदि न प्रतिसेवे ततो मम शिरश्छिद्यते; एवं भीतस्य प्रतिसेवमानस्य च्छेदः । अपरश्चिन्तयति-अहमेवं मार्यमाणः समाधि नासादयिष्यामि, असमाधिमरणेन च दुर्गतिङ्गमी, अतो भक्तपत्याख्यानं कृत्वा मरिष्ये 10 एवं सेवमानस्य षड्गुरवः । अपर इदमालम्बनं करोति-अहं जीवन् प्रतीच्छकानां वाचनां दास्यामि; तस्य षड्लघवः । अन्यश्चिन्तयति- गच्छं सारयिष्यामि; तस्य चतुर्गुरवः । अपर इदमालम्बते-मया विना स्थविराणां न कोऽपि कृतिकर्म करिष्यति अतस्तेषां वैयावृत्यकरणार्थ प्रतिसेवे; तस्य चतुर्लघुकम् । अपरः परिभावयति-विद्वांसः-आचार्यास्तेषां वैयावृत्यकर्ता कोऽपि न विद्यते तदर्थं प्रतिसेवे; तस्य मासलघुकम् ॥ ४९५२ ॥ इदमेव व्याख्याति- 15
निरुवहयजोणिथीणं, विउव्वणं हरिसमुल्लसितें मूलं । भय रोमंचे छेदो, परिण्ण काहं ति छग्गुरुगा॥ ४९५३ ॥ मा सीदेज पडिच्छा, गच्छो फिट्टेज थेर संघेच्छं ।
गुरुणं वेयावच्चं, काहं ति य सेवतो लहुओ ॥ ४९५४ ॥ पञ्चपञ्चाशतो वर्षाणामुपरिष्टादुपहतयोनिका स्त्री भवति, तेषामारतो अनुपहतयोनिका, 20 गर्भ गृहातीत्यर्थः । एवं निरुपहतयोनिकस्त्रीणां 'विकुर्वणं' मण्डनं दृष्ट्वा यस्य हर्षः समुल्लसति ततश्चाब्रह्म प्रतिसेवमानस्य तस्य मूलम् । यस्य तु भयेन रोमाञ्च उत्पद्यते तस्य च्छेदः । परिज्ञा-भक्तप्रत्याख्यानं तां करिष्यामीति यः परिणतस्तस्य षड्गुरुकाः ॥ ४९५३ ॥
'मा प्रतीच्छकाः सीदेयुः' इति बुद्ध्या यः सेवते तस्य षड्लघुकाः । यस्तु 'मां विना गच्छः स्फिटेत्' इत्यालम्बते तस्य चतुर्गुरु । 'स्थविरान् सङ्ग्रहीष्यामि' इति कृत्वा सेवमानस्य 25 चतुर्लघु । 'गुरूणां वैयावृत्यं करिष्ये' इति हेतोः सेवमानस्य लघुमासः ॥ ४९५४ ॥ उक्ता प्रायश्चित्तस्य हानिः । अथ वृद्धिमाह
लहुओ उ होति मासो, दुब्भिक्खऽविसजणे य साहूणं । णेहाणुरागरत्तो, खुड्डो चिय णेच्छए गंतुं ॥ ४९५५ ॥
कालेणेसणसोधिं, पयहति परितावितो दिगिंछाए। १ » एतदन्तर्गतः पाठः भा० का० नास्ति ॥ २ चउर गुरुगा लहुग मासो इतिरूप एवं पाठः सर्वास्वपि प्रतिषु वर्तते, असमीचीनवायमित्यस्माभिर्मूले परावर्तितः पाठः॥ ३ एनामेव नियुक्ति. गाथा व्या कां ॥ ४ तदारतो भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org