________________
१३२४ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अनु॰प्रकृते सूत्रम् १
कुलवंसम्मि पहीणे, रजं अकुमारगं परे पेल्ले ।
तं कीरतु पक्खेवो, एत्थ य बुद्धीऍ पाधणं ॥ ४९४८ ॥ कश्चिद् नृपतिरनपत्यः स मन्त्रिणा प्रोक्तः-यूयमपुत्रिणस्ततः कुलवंशे प्रक्षीणे राज्यमकुमारकं मत्वा परे राजानः प्रेरयेयुः ततः क्रियतामपरपुरुषप्रक्षेपः, स चोपायेन तथा कर्तव्यः यथा लोके अपयशःप्रवादो न समुच्छलति कुमारश्चोत्पद्यते, 'अत्र च' उपायनिरूपणे बुद्धेः प्राधान्यम् , तयैवासौ सम्यक् परिज्ञायते नान्यथेति भावः ॥ ४९४८॥ इदमेव सविशेषमाह
सामत्थ णिन अपुत्ते, सचिव मुणी धम्मलक्ख वेसणता ।
अणहबियतरुणरोधो, एगेसिं पडिमदायणता ॥ ४९४९ ॥ 'अपुत्रे' अपुत्रस्य नृपस्य सचिवेन सह "सामत्थणं" पर्या लोचनम् , यथा-कथं नाम 10 कुमारः सम्भविता ! । ततो मन्त्रिणा भणितम्-~-यथा परक्षेत्रेऽपरेण बीजमुप्तं क्षेत्रखामिन
आभाव्यं भवति एवं तवान्तःपुरक्षेत्रेऽन्येनापि बीजं निसृष्टं तवैव पुत्रो भवति । राज्ञा प्रतिपन्नं तद्वचनम् । भूयोऽप्यमात्यः प्राह-ये मुनयोऽयशःप्रवादाल्लज्जन्ते ते 'धर्मलक्ष्येण' धर्मकथाकारापणव्याजेन यद्वा "धम्मलक्खे"ति 'राजा सान्तःपुरः श्रावको गृहेऽर्हतां प्रतिमाः शुश्रूषते
ताः साधवो वन्दितुमागच्छत' इत्येवं धर्मव्याजेन "वेसणय" ति प्रवेशनीयाः । एवममात्य15 वचनं प्रतिपद्य राज्ञा तथैव कृतम् । ततो राजगृहं प्रविष्टेषु साधुषु ये तरुणाः अनघबीजाः
अविनष्टबीजास्तेषां लक्षणादिभिर्ज्ञात्वा रोधः-नियन्त्रणा कृता, शेषास्तु क्षुल्लक-स्थविरादयो विसर्जिताः । यद्वा "तरुण रोहे" त्ति पाठः, ते तरुणाः 'अवरोधे' अन्तःपुरे तरुणस्त्रीभिः साधं बलाद् भोगान् भोजयितुमारेभिरे । राजपुरुषाश्च घोररूपधारिणो भणन्ति-यदि भोगान्न भोक्ष्यध्वे ततो वयं मारयिष्यामः । तत्रैकः साधुः 20 "वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भगं चिरसञ्चितं व्रतम् । __ वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥" इत्यादि परिभाव्य मर्तुमध्यवसितः, तस्यैवमनिच्छतो राजपुरुषैः शिरश्छिन्नम् । “एगेसिं पडिमदायणय" ति 'एकेषाम्' आचार्याणामयमभिप्रायः, यथा-मन्देतरप्रकाशे प्रदेशे लेप्य
प्रतिमाया लाक्षारसपूर्णायाः शीर्ष छित्त्वा दर्शितम् , ततः साधवो भणिताः-यथैतस्य 23 शिरश्छिन्नम् एवं भवतामपि शिरश्छेदो विधास्यते ॥ ४९४९ ॥ इदमेव भावयति
तरुणीण य पक्खेवो, भोगेहिं निमंतणं च भिक्खुस्स ।
भोत्तुं अणिच्छमाणे, मरणं च तहिं ववसियस्स ॥ ४९५० ॥ तरुणीनां साधुभिः सहान्तःपुरे प्रक्षेपः कृतः, भोगैश्चैकस्य भिक्षोः प्रथमतो निमन्त्रणं कृतम् , तस्य च भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छेदश्चके ॥ ४९५० ॥
दण तं विससणं, सहसा साभावियं कइतवं वा। १पतेः स डे० ॥२°ष्टवीर्यास्ते का ० ॥ ३ °स्ते लक्षणादिभित्विा रुद्धाः, शेषा भा० ॥ ४ ताटी• मो० डे० विनाऽन्यत्र-मरणमध्य भा० । मरणमङ्गीकर्तुमध्य कां० ॥ ५°न्दप्रका भा० कां० ॥ ६ °याः 'पुरुषोऽयं मार्यते' इति नृपपुरुपैः शीर्ष का० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org