________________
भाष्यगाथाः ४९४०-४७ ]
चतुर्थ उद्देशः ।
१३२३
भावात्' राग-द्वेषाभावाद् भवति । शिष्यः प्राह - दर्पेण कल्पेन वाssसेविते किं भवति ? इति उच्यते - कल्पेनासेविते ज्ञानादीनामाराधना भवति, दर्पेण प्रतिसेविते तेषामेव विराधना भवति ॥ ४९४३ ॥ आह- यदि राग-द्वेषविरहिता कल्पिका भवति तर्हि मैथुने कल्पिकाया अभावः प्राप्नोति । उच्यते— प्राप्नोतु नाम, का नो हानि: ? । तथा चाह---
कामं सव्यपदेवि, उस्सग्ग-ध्ववादधम्मता जुत्ता । मोतुं मेहुणभावं, ण विणा सो राग-दोसेहिं ।। ४९४४ ॥ 'कामम्' अनुमतमिदमस्माकम् – 'सर्वेष्वपि पदेषु' मूलोत्तरगुणरूपेषु 'उत्सर्गा- ऽपवादधर्मता युक्ता' उत्सर्गः - प्रतिषेधः अपवादः - अनुज्ञा तद्धर्मता - तल्लक्षणता सर्वेष्वपि पदेषु युज्यते; तथापि मुक्त्वा 'मैथुनभावम्' अब्रह्मासेवनम्, तत्र उत्सर्गधर्मतैव घटते नापवादधर्मता । किमर्थम् ? इत्याह—असौ मैथुनभावो राग-द्वेषाभ्यां विना न भवति, अतो द्वितीयपदेऽपि न 10 तत्राप्रायश्चित्तीति हृदयम् ॥ ४९४४ ॥ अयं पुनरस्ति विशेषः -
5
संजमजीवितउं, कुसलेणालंबणेण वऽण्णेणं ।
भयमाणे तु अकिचं, हाणी वड्डी व पच्छित्ते ॥ ४९४५ ॥
'संयमजीवितहेतोः ' 'चिरकालं संयमजीवितेन जीविष्यामि' इति बुद्ध्या 'कुशलेन वा ' तीर्थाव्यवच्छित्त्यादि लक्षणेनान्येनाप्यालम्बनेन 'अकृत्यम्' अब्रह्म 'भजमानस्य' आसेवमानस्य 15 प्रायश्चिहानिर्वा वृद्धिर्वा वक्ष्यमाणनीत्या भवति ॥ ४९४५ ॥
आह— मैथुने कल्पिका सर्वथैव न भवति ? इति अत आह— गीत्थो जताए, कडजोगी कारणम्प्रि णिद्दोसो । एगेसिं गीत कडो, अरत्तदुट्ठो तु जतणाए || ४९४६ ॥
गीतार्थः 'यतनया' अल्पतरापराधस्थानप्रति सेवारूपया 'कृतयोगी' तपःकर्मणि कृताभ्यासः - 20 'कारणे' ज्ञानादौ सेवते, एष प्रथमो भङ्गः, अत्र च प्रतिसेवमानः कल्पिकप्रति सेवावानिति कृत्वा निर्दोषः । गीतार्थो यतनया कृतयोगी निष्कारणे, एष द्वितीयो भङ्गः, अत्र सदोषः । एवं चतुर्णां पदानां षोडश भङ्गाः कर्तव्याः । एकेषां पुनराचार्याणामिह पञ्च पदानि भवन्ति– गीतार्थः कृतयोगी अरक्को अद्विष्टो यतनया सेवते, एष प्रथमो भङ्गः; गीतार्थः कृतयोगी द्विष्टोऽयतनया, एष द्वितीयों भङ्गः; एवं पञ्चभिः पदैर्द्वात्रिंशद् भङ्गा भवन्ति । अत्रापि 25 प्रथमभङ्गे कल्पिका प्रतिसेवा मन्तव्या न शेषेषु ॥ ४९४६ ॥
आह - यदि तत्र कल्पिका तर्हि निर्दोष एवासौ, उच्यतेजति सव्वसो अभावो, रागादीणं हविज निद्दोसो | जतणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्तं ॥ ४९४७ ॥
यदि 'सर्वशः' सर्वप्रकारेणैव रागादीनामभावो मैथुने भवेत् ततो भवेन्निर्दोषः, तच्च 30 नास्ति, अतो न तत्र सर्वथा निर्दोषः परं यतनायुतेषु 'तेषु' गीतार्थादिविशेषणविशिष्टेषु साधुष्वल्पतरं प्रायश्चित्तं भवति ॥ ४९४७ ॥ अथ यदुक्तम् - "हानिर्वृद्धिर्वा प्रायश्चित्ते भवति” ( गा० ४९४५ ) तत्र हानिं तावद् विवरीषुराह -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org