________________
१३२२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ कश्चिद् ब्रूयात्-'सारूपिकः' सिद्धपुत्रः तद्रूपो यो नपुंसकस्तेन हस्तकर्म कार्यताम् । द्वितीयः प्राह-गृहस्थपुराणनपुंसकेन । तृतीयो भणति-मिथ्यादृष्टिनपुंसकेन । चतुर्थों ब्रवीति-परतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि "सूयणय" ति हस्तकर्मकरणे 'सूचनां' प्रेरणां कुर्वाणानां चत्वारो लघवस्तपः-कालविशेषिता भवन्ति । तत्र प्रथमे द्वाभ्यामपि लघवः, 6 द्वितीये तपसा लघवः, तृतीये कालेन लघवः, चतुर्थे द्वाभ्यामपि गुरव इति । अथ ते हस्तकर्म कृत्वा पश्चात्कर्म कुर्वन्ति, उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि 'त एव' चतुर्लघवः ॥४९३९॥
एसेवै कमो नियमा, इत्थीसु वि होइ आणुपुवीए ।
चउरो य अणुग्घाया, पच्छाकम्मम्मि ते लहुगा ॥ ४९४० ॥ ____ 'एष एव' सारूपिकादिकः क्रमो नियमात् स्त्रीणामपि आनुपूर्व्या वक्तव्यो भवति । 10 तद्यथा-प्रथमो ब्रवीति-सिद्धपुत्रिकया हस्तकर्म कार्यताम् , एवं द्वितीयः-गृहस्थपुराणि
कया, तृतीयः-मिथ्यादृष्टिगृहस्थया, चतुर्थः-परतीर्थिक्या । चतुर्णामप्येवंभणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारः 'अनुद्धाताः' गुरुका मासास्तथैव तपः-कालविशेषिताः प्रायश्चित्तम् । पश्चात्कर्मणि तु 'त एव' चत्वारो मासा लघुकाः ॥ ४९४० ॥ तदेवं गतं 'वसतेयॊषेण' इति द्वारम् । 'दृष्ट्वा स्मृत्वा वा पूर्वभुक्तानि' इति द्वारद्वयं तु यथा निशीथे प्रथमोद्देशके 15 प्रथमसूत्रे व्याख्यातं तथैवात्रापि मन्तव्यम् । तदेवमुक्तं हस्तकर्म । अथ मैथुनमभिधित्सुराह
मेहुण्णं पि य तिविहं, दिव्वं माणुस्सयं तिरिक्खं च ।'
ठाणाई मोत्तूणं, पडिसेवणि सोधि स चेव ॥ ४९४१ ॥ मैथुनमपि त्रिविधम् । तद्यथा-दिव्यं मानुष्यं तैरश्चं च । अत्र च येषु स्थानेष्वेतानि दिव्यादीनि मैथुनानि सम्भवन्ति तानि मुक्त्वा स्थातव्यम् । यदि तेषु तिष्ठति तानि वा 20 दिव्यादीनि प्रतिसेवते तदा तदेव स्थानप्रायश्चित्तं सैव च प्रतिसेवनायां शोधिर्या प्रथमोद्देशके सागारिकसूत्रेऽभिहिता ( गा० २४७० तः ) ॥ ४९४१॥ अथ द्वितीयपदं सप्रायश्चित्तमुच्यते । तत्र परः प्रेरयति
मूलुत्तरसेवासुं, अवरपदम्मि णिसिज्झती सोधी। .
मेहुण्णे पुण तिविधे, सोधी अववायतो किण्णु ॥ ४९४२ ॥ 25 'मूलगुणोत्तरगुणप्रतिसेवनासु' प्राणातिपात-पिण्डविशोधिप्रभृतिविषयासु - 'अपरपदे'
उत्सर्गापेक्षया अन्यस्मिन्नपवादाख्ये स्थाने 'शोधिः' प्रायश्चित्तं तावन्निषिध्यते, न दीयत इत्यर्थः, मैथुने पुनस्त्रिविधेऽपि किमर्थमपवादतः प्रतिसेव्यमाने शोधिरैभिधास्यते ! ॥४९४२॥ सूरिराह-द्विविधा प्रतिसेवना-दर्पिका कल्पिका च अनयोः प्ररूपणार्थ तावदिदमाह
राग-द्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा ।
आराधणा उ कप्पे, विराधणा होति दप्पेणं ॥ ४९४३ ॥ राग-द्वेषाभ्याम् अनुगता-सहिता या प्रतिसेवना सा दर्पिका, या तु कल्पिका सा 'तद१°व गमो ताभा० ॥ २°म्मि चउलहुगा ताभा० ॥ ३१- एतदन्तर्गतः पाठः भा. कां. नास्ति ॥४रभिधीयते? भा०॥ ५°णार्थमिदमाह भा० का.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org