________________
१३१८
10
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ स्थाने स्थातव्यम् , तदभावे वृक्षमूलादावपि स्थेयम् , न पुनस्तत्रेति ॥ १९२३ ।। ... स इदमेव व्यक्तीकरोति-~
पुढवी ओस सजोती, हरिय तसा उवधितेण वासं वा ।
सावय सरीरतेणग, फरसादी जाव ववहारो॥ ४९२४ ॥ । यद्यपि बहिः पृथिवीकायोऽवश्यायो वा, 'सज्योतिर्वा' सामिका वा अन्या वसतिः, हरितकायस्त्रसप्राणिनो वा तत्र सन्ति तथापि निर्गन्तव्यम् । अथ बहिरुपधिस्तेनभयं वर्ष वा वर्षति श्वापदाः शरीरस्तेनका वा तत्र सन्ति ततः परुषवचनैरपि सा वेश्या भणितव्यानिर्गच्छास्मदीयात् प्रतिश्रयात् । आदिशब्दात् तथाप्यनिर्गच्छन्त्यां रन्धनादिकमपि विधीयते, यावद् व्यवहारोऽपि करणे उपस्थितायाः कर्त्तव्यः ॥ ४९२४ ॥ इदमेव भावयति
अम्हे दाणि विसहिमो, इड्डिमपुत्त बलवं असहणोऽयं । __णीहि अणिते बंधण, णिवकड्डण सिरिघराहरणं ॥ ४९२५ ॥ साधवो भणन्ति-वयं क्षमाशीला इदानी विविधं विशिष्टं वा सहामहे, ततो यस्तत्राकारवान् साधुः स दर्यते-अयं तु 'ऋद्धिमत्पुत्रः' राजकुमारादिः 'बलवान्' सहस्रयोधी 'असहनः' कोपनो बलादपि भवतीं निष्काशयिष्यति ततः स्वयमेव निर्गच्छ । यदि निर्गच्छति 16 ततो लष्टम् , अथ न निर्गच्छति तदा सर्वेऽपि साधव एको वा बलवान् तां बध्नाति, ततः प्रभाते मुच्यते । मुक्ता च यदि नृपस्यान्तिके साधूनाकर्षति तदा करणे गत्वा कारणिकादीनां व्यवहारो दीयते । तत्र च श्रीगृहोदाहरणं कर्तव्यम् । यथा
यदि राज्ञः श्रीगृहे रत्नापहारं कुर्वन् कश्चिच्चौरः प्राप्यते ततस्तस्य कं दण्डं प्रयच्छथ ? । __ कारणिकाः प्राहुः-शिरस्तदीयं गृह्यते । साधवो भणन्ति-अस्माकमप्येषा रत्नापहारिणी 20 अव्यापादिता मुधैव मुक्ता । ते प्राहु:-कानि युष्माकं रत्नानि ? । साधवो भणन्तिज्ञानादीनि । कथं तेषामपहारः ? । अनाचारप्रतिसेवनादपध्यानगमनादिनेति ॥ ४९२५ ॥ अथ सस्त्रीकः पुरुषः समागच्छेत् सोऽपि वारणीयः । तथा चाह
अहिकारों वारणम्मि, जत्तिय अप्फुण्ण तत्तिया वसही। अतिरेग दोस भगिणी, रत्ति आर णिच्छुभणं ॥ ४९२६ ॥ आवरितो कम्महिं, सत्तू विव उद्वितो थरथरंतो । मुंचति य भेंडितातो, एकेक में निवादेमि ॥ ४९२७ ॥ निग्गमणं तह चेवा, णिद्दोस सदोसऽनिग्गमे जतणा।
सज्झाए झाणे वा, आवरणे सद्दकरणे वा ॥ ४९२८ ॥ यत्र केवला पुरुषमिश्रिता वा स्त्री समागच्छति तत्र सर्वत्रापि वारणायामधिकारः, सा 30 कर्तव्येति भावः । अत एव चोत्सर्गतो घचशालायां न वस्तव्यं किन्तु यावद्भिः साधुभिः सा
"अप्फुण्ण" ति व्याप्ता भवति तावती' तावत्प्रमाणा वसतिरन्वेषणीया । अथातिरिक्तायां वसतौ वसन्ति ततः 'दोषाः' पूर्वोक्ता भवन्ति । कारणतस्तस्यामपि स्थितानां कश्चित् पुरुषः
१ एतदन्तर्गतमवतरणं भा० का० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org