________________
भाष्यगाथाः ४९१६-२३] चतुर्थ उद्देशः ।
१३१७ दिवे य गहणमादी, पुव्वुत्ता पच्छकम्मं च ॥ ४९१९ ॥ तत्रगतः शृणोति मासलघु, कुतूहलं तस्योत्पद्यते मासगुरु, व्रजतश्चतुर्लघुकाः, शृङ्गारं शृण्वतश्चतुर्गुरुकाः, कुड्यस्य च्छिद्रकरणे षण्मासा लघवः, छिद्रेण पश्यन्नास्ते षड्गुरवः, तद्भावपरिणते च्छेदः, आलिङ्गनादिकरणे मूलम् , एवं भिक्षोः प्रायश्चित्तमुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति । आचार्यस्य चतुर्लघुकादारब्धं पाराञ्चिके तिष्ठति ।। अन्यच्च-आरक्षिकादिभिदृष्टे सति ग्रहणा-ऽऽकर्षणादयः पूर्वोक्ता दोषाः । या वा प्रतिमा सा कदाचिदालिङ्गयमाना भज्येत ततः पश्चात्कर्मदोषः ॥ ४९१९ ॥ एष वसतिविषयो रूपदोष उक्तः । अथ विस्तरदोषमाहअप्पो य गच्छो महती य साला, निकारणे ते य तहिं ठिता उ। कजे ठिता वा जतणाएँ हीणा, पावंति दोसं जतणा इमा तू ॥ ४९२० ॥ 10
अल्पश्चासौ गच्छो यस्तत्र प्रतिश्रये स्थितः, शाला च सा 'महती' विस्तीर्णा घचशालेत्यर्थः, ते च साधवो निष्कारणे 'तत्र' उपाश्रये स्थिता वर्तन्ते, अथवा कार्ये स्थिताः परं 'यतनया' वक्ष्यमाणलक्षणया हीनाः, ततो वेश्याप्रभृतिषु स्त्रीषु समागच्छन्तीषु 'दोष' कौतुकस्मृतिकरणादिकं प्राप्नुवन्ति ॥ ४९२० ॥ कारणे तु तत्र तिष्ठतामियं यतनाअसिवादिकारणेहिं, अण्णाऽसति वित्थडाऍ ठायति ।
13 ओतप्पोत करिती, संथारग-वत्थ-पादेहिं ॥ ४९२१ ॥ अशिवादिभिः कारणैः क्षेत्रान्तरेऽतिष्ठन्तस्तत्र अन्यस्या वसतेरभावे विस्तृतायामपि वसतौ तिष्ठन्ति । तत्र च संस्तारकैर्वस्त्र-पात्रैश्च भूमिकां ओतप्रोतां कुर्वन्ति, मालयन्तीत्यर्थः ॥ ४९२१ ॥ इदमेव व्यनक्ति
भूमीए संथारे, अड्डवियड्डे करेंति जह दटुं ।
ठातुमणा वि दिवसओ, ण ठंति रत्तिं तिमा जतणा ॥ ४९२२ ॥ विस्तीर्णायां वसतौ तथा भूम्यां संस्तारकान् अर्दवितर्दान् कुर्वन्ति यथा तान् दृष्ट्वा स्थातुमनसोऽपि न तिष्ठन्ति । एषा दिवसतो यतना । रात्रौ पुनरियं यतना ॥ ४९२२ ॥
वेसत्थीआगमणे, अवारणे चउगुरुं च आणादी ।
अणुलोमण निग्गमणं, ठाणं अन्नत्थ रुक्खादी ॥ ४९२३ ॥ 25 वेश्यास्त्री यदि रात्रावागच्छंति भणति च–'अहमप्यत्र वसामि' इति ततः सा वारणीया । अथ न वारयन्ति ततश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । “अणुलोमणे" ति अनुकूलैर्वचनैः सा प्रतिषेद्धव्या न खरपरुषैः, ‘मा साधूनामभ्याख्यानं दद्याद्' इति कृत्वा । "निग्गमणे" त्ति यदि सा वेश्या निर्गन्तुं नेच्छति ततः साधुभिर्निर्गन्तव्यम् , 'अन्यस्मिन्' शून्यगृहादि. १श्चत्वारो लघु भा० का० ॥ २ षड्ल° भा० का० ॥ ३°भिस्तदीये आलिङ्गनादी दृष्टे कां०॥ ४°न्तरे गच्छन्तस्तत्र तिष्ठन्तोऽन्यस्या को० ॥ ५ भा० विनाऽन्यत्र-ओतपोत त्ति कुर्वन्ति, माल' ताटी• मो० डे० । ओतपोतां कुर्वन्ति, देशीपदमिदम्, तेन माल° का० ॥ ६ °च्छति 'अहमप्यत्र वसामि' इतिवुया ततः कां ॥ ७°हादौ स्थात° का० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org