SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ तथा चात्र पादलिप्ताचार्यकृता "बेट्टिक" त्ति राजकन्यका दृष्टान्तः । स चायम्__पालित्तायरिएहिं रन्नो भगिणीसरिसिया जंतपडिमा कया । चंकमणुम्मेस-निमेसमयी तालविंटहत्था आयरियाणं पुरतो चिट्ठइ । राया वि अईव पालित्तगस्स सिणेहं करेइ । पिज्जाइएहिं पउद्देहिं रन्नो कहियं-भगिणी ते समणएणं अभिओगिया । राया न पत्तियति, 5 भणिओ अ-पेच्छ, दंसेमु ते। राया आगतो, पासित्ता पालित्तायरियाणं रुट्ठो पच्चोसरिओ य । तओ सा आयरिएहिं चंड त्ति विगरणी कया । राया सुद्रुतरं आउद्यो॥ एवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । “जवणे" ति यवनविषये ईदृशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते ॥ ४९१५ ॥ व्याख्यातं द्विविधमप्यचितम् । अथ सचित्तं व्याख्यायते, तदपि द्विविधम्-तत्रगतमागन्तुकं च । एतदुभयमपि व्याख्यानयति10 .. पडिवेसिग-एकघरे, सचित्तरूवं तु होति तत्थगयं । सुण्णमसुण्णघरे वा, एमेव य होति आगंतुं ॥ ४९१६ ॥ प्रातिवेश्मिकगृहे एकगृहे वा-एकत्रैवोपाश्रये कारणतः स्थितानां यत् स्त्रिया रूपं दृश्यते तत् तत्रगतं सचित्तं रूपं भवति । अथवा शून्यगृहमशून्यगृहं वा प्रविष्टेन या तत्र स्थिता स्त्री विलोक्यते तदपि तत्रगतम् । एवमेव चागन्तुकमपि सचित्तं स्त्रीरूपं भवति, प्रतिश्रये या स्त्री 16 समागच्छति तदागन्तुकमिति भावः ॥ ४९१६ ॥ अत्र तिष्ठतां दोषानुपदर्शयति आलिंगणादी पडिसेवणं वा, दटुं सचित्ताणमचेदणे वा । सद्देहि रूवेहि य इंधितो तू, मोहग्गि संदिप्पति हीणसत्ते॥४९१७॥ तेषां तत्रगतानामागन्तुकानां वा सचित्तानां स्त्रीरूपाणामालिङ्गनादीनि प्रतिसेवनां वा कुर्वतो दृष्ट्वा, अचेतनानि वा स्त्रीरूपाणि विलोक्य, प्रतिसेव्यमानाया वा स्त्रियः शब्दान् श्रुत्वा, तैः शब्दै 20 रूपैश्च 'इन्धितः' प्रज्वालितः तुः पुनरर्थे » मोहाग्निः कस्यापि हीनसत्त्वस्य भुक्तभोगिनोऽभुक्तभोगिनो वा सन्दीप्यते, ततः स्मृतिकरण-कौतुकदोषा भवेयुः ॥ ४९१७ ॥ कथम् ? इत्याह कोतूहलं च गमणं, सिंगारे कुड्डछिद्दकरणे य । [नि.५६३] दिढ़े परिणय करणे, भिक्खुणों मूलं दुवे इतरे ॥ ४९१८ ॥ कुतूहलं तस्योत्पद्यते-आसन्ने गत्वा पश्यामि, शृणोमि वा शब्दम् , एवं कुतूहले उत्पन्ने 25 तत्र गमनं कुर्यात्, शृङ्गारं वा गायन्तीं श्रुत्वा गच्छेत् , कुड्यस्य वा छिद्रं कृत्वा प्रलोकयेत्, दृष्टे च सोऽपि तद्भावपरिणतो भवेत्-अहमप्येवं करोमीति, एतद्भावपरिणतः कश्चित् तदेवालिङ्गनादिकं करणं कुर्यात् । एतेषु स्थानेषु भिक्षोर्मूलं यावत् प्रायश्चित्तम् , 'इतरयोः' उपाध्याया-ऽऽचार्ययोर्यथाक्रमं 'द्वे' अनवस्थाप्य-पाराञ्चिके चरमपदे भवतः ॥ ४९१८ ।। इदमेव व्याचष्टे लहुतो लहुगा गुरुगा, छम्मासा छेद मूल दुगमेव । १°यत्तिओ भणि' का० ॥ २ झड त्ति मो० डे० ॥ ३ चेति । तदु कां० ॥ ४ रूपं वेदितव्यम्, प्रति कां० ॥ ५ ॥ एतदन्तर्गतः पाठः कां० एव वर्तते ॥ ६ दृष्ट्रा च भा० का० ॥ ७°नादिकं कु भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy