________________
भाष्यगाथाः ४९०६-१५ ]
चतुर्थ उद्देशः ।
१३१५
द्रवं- पानकं तस्योज्झनं यतनया विधेयम् । “दाहे " त्ति लूताया उष्णस्य वा गाढतरमभितापे प्रतिश्रयभूमिकायामावर्षणं कुर्यात्, तृषाभिभूतं वा देहं सिञ्चेत्, ग्लानं भक्तप्रत्याख्यानिनं वा दाहाभिभूतं सिञ्चेत् । कायद्वारे - कश्चिद् गृहस्थः प्रत्यनीकस्तस्योपशमनीं प्रतिमां कृत्वा ततो यावदसावनुकूलो भवति तावद् मन्त्रं जपेत्, अशिवप्रशमनीं वा प्रतिमां विदध्यात् । क्षारद्वारे – अनन्तरं परम्परं वा शुषिरेऽशुषिरे वा प्रसूतिशमनार्थं क्षारं प्रक्षिपेत् 15 तत्र शुषिरे दर्शयति – “खारो तु सिल्लादि" त्ति सेल्लं - वालमयं सिन्दूरं तत्र क्षारः क्षेपणीयः, किं सञ्जातो न वा ? इति ॥ ४९१० ॥ उपसंहरन्नाह -
-1
कम्मं असं किलि, एवमियं वण्णियं समासेणं ।
कम्मं तु संकिलिट्ठ, वोच्छामि अहाणुपुच्चीए ॥ ४९११ ॥ एवमिदमसंक्लिष्टं हस्तकर्म समासेन वर्णितम् । साम्प्रतं संक्लिष्टं हस्तकर्म यथानुपूर्व्या 10 वक्ष्यामि ॥ ४९११ ॥ तदेवाह -
वसहीए दोसेणं, दहुं सरितुं वपुव्वत्ताई ।
एतेहिँ संकिलि, तमहं वोच्छं समासेणं ॥ ४९१२ ॥
वसतेर्दोषेण वा स्त्रीणां वाऽऽलिङ्गनादिकं विधीयमानं दृष्ट्वा 'पूर्वभुक्तानि वा' स्त्रीभिः सार्धं हसित-क्रीडितादीनि स्मृत्वा एतैः कारणैः 'संक्लिष्टं' हस्तकर्म यथोत्पद्यते तदहं वक्ष्ये समासेन 15 ॥ ४९१२ ॥ तत्र वसतिदोषं तावदाह
――――
दुविहो वसहीदोसो, वित्थरदोसो य रूवदोसो य ।
दुविहो य रूवदोसो, इत्थिगत णपुंसतो चेव ॥ ४९१३ ॥
द्विविधो वसतिदोषो भवति, तद्यथा - विस्तरदोषश्च रूपदोषश्च । तत्र विस्तरदोषो घङ्घशालादिका विस्तीर्णा वसतिः, स पश्चाद् वक्ष्यते । रूपदोषो द्विधा — स्त्रीरूपगतो नपुंसक - 20 रूपगतश्च ॥ ४९१३ ॥
एकेको सो दुविहो, सच्चित्तो खलु तहेव अचित्तो ।
अचित्तो वि यदुविहो, तत्थगताऽऽगंतुओ चेव ॥ ४९१४ ॥ 'सः' स्त्रीरूपगैतो नपुंसकरूपगतश्च दोष एकैको द्विविधः – सचितोऽचित्तश्व, जीवयुतविषयोऽजीवयुत विषयश्चेत्यर्थः । अचित्तः पुनरपि द्विविध::-तत्रगत आगन्तुकश्च ॥ ४९१४ ॥ 35 उभयमपि व्याचष्टे -
कट्ठे पुत्थे चित्ते, दंतोवल मट्टियं व तत्थगतं ।
एमेव य आगंतुं, पालित्तय बेट्टिया जवणे ॥ ४९१५ ॥
याः काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिता स्त्रीप्रतिमा यद्वा दन्तमयमुपलमयं मृत्तिकामयं वा स्त्रीरूपं यस्यां वसतौ वसति तत् तस्यां तत्रगतं मन्तव्यम्, तद्वि- 30 षयो दोषोऽप्युपचारात् तत्रगत उच्यते । एवमेत्र चागन्तुकमपि मन्तव्यम् । आगन्तुकं नामयद् अन्यत आगतम् । ततो यथा तत्रगताः स्त्रीप्रतिमा भवन्ति तथाऽऽगन्तुका अपि भवेयुः । १-२ • एतदन्तर्गतः पाठः भा० नास्ति ॥ ३ गतादिरेकैको दोषो द्विवि कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org