SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनु०प्रकृते सूत्रम् १ व्यम् , यथा मणिकारा लकुटवेधान् कृत्वा मणिकान् घर्षन्ति । आदिशब्दात् प्रवालादिपरिग्रहः । “कट्ठाइ" ति चन्दनकाष्ठं फलकादिकं वा यद् घर्षति तद्वा घर्षणम् । “पट्ट" ति गन्धपट्टकस्तत्र वराः-पधाना ये गन्धास्तदादीनां पेषणं मन्तव्यम् । गोफणा-चर्मदवरकमयी प्रसिद्धा, तया धनुःप्रभृतिभिर्वा लेष्टुकमुपलं वा यत् प्रक्षिपति एषोऽभिघात उच्यते ॥४९०५|| अथवा विहुवण-गंत-कुसादी, सिणेह उदगादिआवरिमणं तु । काओ तु बिंब सत्थे, खारो तु कलिंचमादीहिं ॥ ४९०६ ॥ विधुवनं-वीजनकं गन्तकं-वस्त्रं कुशः-दर्भस्तत्प्रभृतिभिर्वीजयन् यत् प्राणिनोऽभिहन्ति एष वा अभिघात उच्यते । स्नेहो नाम उदकेन आदिशब्दाद् घृतेन तैलेन वा आवर्षणं करोति । कायो नाम द्विपदादीनां 'बिम्बं' प्रतिरूपमित्यर्थः तत् शस्त्रेण परम्पराकरणभूतेन 10 पत्रच्छेद्यादिषु निर्वर्तयति । 'क्षारः' लवणं तमशुषिरे शुपिरे वा कलिञ्चादिभिः प्रक्षिपति । 'कलिञ्चः' वंशकर्परी ॥ ४९०६ ॥ एषु दोषानाह एकेकातों पदातो, आणादीया य संजमे दोसा । ___ एवं तु अणहाए, कप्पइ अट्ठाऍ जयणाए ॥ ४९०७॥ एकैकस्माद् भेदनादिपदादाज्ञाभङ्गादयो दोषाः, संयमे आत्मनि च प्रागुक्तनीत्या विराधना, 16 एवमेते दोषा अनर्थकं छेदनादिकं कुर्वतो भवन्ति । अथ अर्थः-प्रयोजनं तस्मिन् प्राप्ते यतनया छेदनादिकं करोति तदा कल्पते ॥ ४९०७ ॥ इदमेव द्वितीयपदं भावयति असती अधाकडाणं, दसिगादिगछेदणं व जयणाए । गुलमादि लाउणाले, कप्परभेदादि एमेव ॥ ४९०८॥ यथाकृतानां वस्त्राणामभावे दशिकारछेत्तव्याः, आदिशब्दात् प्रमाणाधिकस्य वा वस्त्रादेश्छे. 20 दनं 'यतनया' यथा संयमा-ऽऽत्मविराधना न भवति तथा कर्त्तव्यम् । भेदनद्वारे-गुडादिपिण्डस्य भेदं कुर्यात् , अलाबु-तुम्बकं तस्य वा नालमधिकरणभयाद् भिन्द्यात्, कपरं-कपालं तदादिना वा कार्यमुत्पन्नं ततो घटग्रीवादेर्भेदनम् ‘एवमेव' यतनया कुर्यात् ॥ ४९०८ ॥ अक्खाण चंदणे वा, वि घसणं पीसणं तु अगतादी। वग्यातीणऽभिघातो, अगतादि पताव सुणगादी ॥ ४९०९ ॥ 2. घर्षणद्वारे-अक्षाः-प्रसिद्धाः तेषां विषमाणां समीकरणार्थम् , चन्दनस्य वा ग्लानादेः परिदाहोपशमनार्थ घर्षणं कर्त्तव्यम् । पेषणद्वारे-लानादिनिमित्तमेव अगदादेः पेषणं विधेयम् । अभिघातद्वारे-व्याघ्रादीनामभिभवतां गोफणया धनुषा वाऽभिघातः कार्यः, अगदादेर्वा प्रताप्यमानस्य शुनक-काकादयोऽभिपतन्तो लेष्टुना भेषयितव्याः ॥ ४९०९ ॥ बितिय दवुज्झण जतणा, दाहे वा भूमि-देहसिंचणता । पडिणीगा-ऽसिवसमणी, पडिमा खारो तु सेल्लादी ॥ ४९१०॥ स्नेहद्वारे-द्वितीयम्' अपवादपैदं प्रतीत्य स्नेहमुद्वरितं क्षारमध्ये प्रक्षिप्य परिष्ठापयेत् । १°षा भवन्ति, संयमे आत्मनि च विराधना छेदनपदवद् भावनीया । एवमेते का ॥ २ रणम् , चन्द भा० कां० ॥ ३ °पदं तत्र ने मा० ॥ .30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy